Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

पार्वती वल्लभ अष्टकम्

Parvati Vallabha Ashtakam in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

parvati vallabha ashtakam in hindi

नमो भूतनाथं नमो देवदेवं
नमः कालकालं नमो दिव्यतेजम् ।
नमः कामभस्मं नमः शांतशीलं
भजे पार्वतीवल्लभं नीलकंठम् ॥ 1 ॥

सदा तीर्थसिद्धं सदा भक्तरक्षं
सदा शैवपूज्यं सदा शुभ्रभस्मम् ।
सदा ध्यानयुक्तं सदा ज्ञानतल्पं
भजे पार्वतीवल्लभं नीलकंठम् ॥ 2 ॥

श्मशाने शयानं महास्थानवासं
शरीरं गजानां सदा चर्मवेष्टम् ।
पिशाचादिनाथं पशूनां प्रतिष्ठं
भजे पार्वतीवल्लभं नीलकंठम् ॥ 3 ॥

फणीनागकंठे भुजंगाद्यनेकं
गले रुंडमालं महावीर शूरम् ।
कटिव्याघ्रचर्मं चिताभस्मलेपं
भजे पार्वतीवल्लभं नीलकंठम् ॥ 4 ॥

शिरः शुद्धगंगा शिवा वामभागं
वियद्दीर्घकेशं सदा मां त्रिणेत्रम् ।
फणीनागकर्णं सदा फालचंद्रं
भजे पार्वतीवल्लभं नीलकंठम् ॥ 5 ॥

करे शूलधारं महाकष्टनाशं
सुरेशं परेशं महेशं जनेशम् ।
धनेशामरेशं ध्वजेशं गिरीशं [धनेशस्यमित्रं]
भजे पार्वतीवल्लभं नीलकंठम् ॥ 6 ॥

उदासं सुदासं सुकैलासवासं
धरानिर्झरे संस्थितं ह्यादिदेवम् ।
अजं हेमकल्पद्रुमं कल्पसेव्यं
भजे पार्वतीवल्लभं नीलकंठम् ॥ 7 ॥

मुनीनां वरेण्यं गुणं रूपवर्णं
द्विजैः संपठंतं शिवं वेदशास्त्रम् ।
अहो दीनवत्सं कृपालुं शिवं तं
भजे पार्वतीवल्लभं नीलकंठम् ॥ 8 ॥

सदा भावनाथं सदा सेव्यमानं
सदा भक्तिदेवं सदा पूज्यमानम् ।
महातीर्थवासं सदा सेव्यमेकं
भजे पार्वतीवल्लभं नीलकंठम् ॥ 9 ॥

इति श्रीमच्छंकरयोगींद्र विरचितं पार्वतीवल्लभाष्टकं नाम नीलकंठ स्तवः ॥

parvati vallabha ashtakam in hindi

Copy
Give Feedback