Narayaniyam Dashaka 35 in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
narayaniyam dashaka 35 in hindi
नीतस्सुग्रीवमैत्रीं तदनु हनुमता दुंदुभेः कायमुच्चैः
क्षिप्त्वांगुष्ठेन भूयो लुलुविथ युगपत् पत्रिणा सप्त सालान् ।
हत्वा सुग्रीवघातोद्यतमतुलबलं बालिनं व्याजवृत्त्या
वर्षावेलामनैषीर्विरहतरलितस्त्वं मतंगाश्रमांते ॥1॥
सुग्रीवेणानुजोक्त्या सभयमभियता व्यूहितां वाहिनीं ता-
मृक्षाणां वीक्ष्य दिक्षु द्रुतमथ दयितामार्गणायावनम्राम् ।
संदेशं चांगुलीयं पवनसुतकरे प्रादिशो मोदशाली
मार्गे मार्गे ममार्गे कपिभिरपि तदा त्वत्प्रिया सप्रयासैः ॥2॥
त्वद्वार्ताकर्णनोद्यद्गरुदुरुजवसंपातिसंपातिवाक्य-
प्रोत्तीर्णार्णोधिरंतर्नगरि जनकजां वीक्ष्य दत्वांगुलीयम् ।
प्रक्षुद्योद्यानमक्षक्षपणचणरणः सोढबंधो दशास्यं
दृष्ट्वा प्लुष्ट्वा च लंकां झटिति स हनुमान् मौलिरत्नं ददौ ते ॥3॥
त्वं सुग्रीवांगदादिप्रबलकपिचमूचक्रविक्रांतभूमी-
चक्रोऽभिक्रम्य पारेजलधि निशिचरेंद्रानुजाश्रीयमाणः ।
तत्प्रोक्तां शत्रुवार्तां रहसि निशमयन् प्रार्थनापार्थ्यरोष-
प्रास्ताग्नेयास्त्रतेजस्त्रसदुदधिगिरा लब्धवान् मध्यमार्गम् ॥4॥
कीशैराशांतरोपाहृतगिरिनिकरैः सेतुमाधाप्य यातो
यातून्यामर्द्य दंष्ट्रानखशिखरिशिलासालशस्त्रैः स्वसैन्यैः ।
व्याकुर्वन् सानुजस्त्वं समरभुवि परं विक्रमं शक्रजेत्रा
वेगान्नागास्त्रबद्धः पतगपतिगरुन्मारुतैर्मोचितोऽभूः ॥5॥
सौमित्रिस्त्वत्र शक्तिप्रहृतिगलदसुर्वातजानीतशैल-
घ्राणात् प्राणानुपेतो व्यकृणुत कुसृतिश्लाघिनं मेघनादम् ।
मायाक्षोभेषु वैभीषणवचनहृतस्तंभनः कुंभकर्णं
संप्राप्तं कंपितोर्वीतलमखिलचमूभक्षिणं व्यक्षिणोस्त्वम् ॥6॥
गृह्णन् जंभारिसंप्रेषितरथकवचौ रावणेनाभियुद्ध्यन्
ब्रह्मास्त्रेणास्य भिंदन् गलततिमबलामग्निशुद्धां प्रगृह्णन् ।
देवश्रेणीवरोज्जीवितसमरमृतैरक्षतैः ऋक्षसंघै-
र्लंकाभर्त्रा च साकं निजनगरमगाः सप्रियः पुष्पकेण ॥7॥
प्रीतो दिव्याभिषेकैरयुतसमधिकान् वत्सरान् पर्यरंसी-
र्मैथिल्यां पापवाचा शिव! शिव! किल तां गर्भिणीमभ्यहासीः ।
शत्रुघ्नेनार्दयित्वा लवणनिशिचरं प्रार्दयः शूद्रपाशं
तावद्वाल्मीकिगेहे कृतवसतिरुपासूत सीता सुतौ ते ॥8॥
वाल्मीकेस्त्वत्सुतोद्गापितमधुरकृतेराज्ञया यज्ञवाटे
सीतां त्वय्याप्तुकामे क्षितिमविशदसौ त्वं च कालार्थितोऽभूः ।
हेतोः सौमित्रिघाती स्वयमथ सरयूमग्ननिश्शेषभृत्यैः
साकं नाकं प्रयातो निजपदमगमो देव वैकुंठमाद्यम् ॥9॥
सोऽयं मर्त्यावतारस्तव खलु नियतं मर्त्यशिक्षार्थमेवं
विश्लेषार्तिर्निरागस्त्यजनमपि भवेत् कामधर्मातिसक्त्या ।
नो चेत् स्वात्मानुभूतेः क्व नु तव मनसो विक्रिया चक्रपाणे
स त्वं सत्त्वैकमूर्ते पवनपुरपते व्याधुनु व्याधितापान् ॥10॥
narayaniyam dashaka 35 in hindi
Leave a Comment