Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

सुब्रह्मण्य पञ्च रत्न स्तोत्रम्

Subrahmanya Pancha Ratna Stotram in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

subrahmanya pancha ratna stotram in devanagari

षडाननं चन्दनलेपिताङ्गं महोरसं दिव्यमयूरवाहनम् ।
रुद्रस्यसूनुं सुरलोकनाथं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 1 ॥

जाज्वल्यमानं सुरवृन्दवन्द्यं कुमार धारातट मन्दिरस्थम् ।
कन्दर्परूपं कमनीयगात्रं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 2 ॥

द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसी दधानम् ।
शेषावतारं कमनीयरूपं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 3 ॥

सुरारिघोराहवशोभमानं सुरोत्तमं शक्तिधरं कुमारम् ।
सुधार शक्त्यायुध शोभिहस्तं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 4 ॥

इष्टार्थसिद्धिप्रदमीशपुत्रं इष्टान्नदं भूसुरकामधेनुम् ।
गङ्गोद्भवं सर्वजनानुकूलं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ 5 ॥

यः श्लोकपञ्चमिदं पठतीह भक्त्या
ब्रह्मण्यदेव विनिवेशित मानसः सन् ।
प्राप्नोति भोगमखिलं भुवि यद्यदिष्टम्
अन्ते स गच्छति मुदा गुहसाम्यमेव ॥

subrahmanya pancha ratna stotram in devanagari

Copy
Give Feedback