Sri Shodashi Tripura Sundari Ashtottara Satanama Stotram in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
sri shodashi tripura sundari ashtottara satanama stotram in devanagari
भृगुरुवाच
चतुर्वक्त्र जगन्नाथ स्तोत्रं वद मयि प्रभो ।
यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥ 1 ॥
ब्रह्मोवाच
सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् ।
गुह्याद्गुह्यतरं गुह्यं सुन्दर्याः परिकीर्तितम् ॥ 2 ॥
अस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शम्भुरृषिः अनुष्टुप् छन्दः श्रीषोडशी देवता धर्मार्थकाममोक्षसिद्ध्यर्थे जपे विनियोगः ।
त्रिपुरा षोडशी माता त्र्यक्षरा त्रितया त्रयी ।
सुन्दरी सुमुखी सेव्या सामवेदपरायणा ॥ 3 ॥
शारदा शब्दनिलया सागरा सरिदम्बरा ।
शुद्धा शुद्धतनुः साध्वी शिवध्यानपरायणा ॥ 4 ॥
स्वामिनी शम्भुवनिता शाम्भवी च सरस्वती ।
समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा ॥ 5 ॥
साधुसेव्या साधुगम्या साधुसन्तुष्टमानसा ।
खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी ॥ 6 ॥
षड्वर्गभावरहिता षड्वर्गपरिचारिका ।
षड्वर्गा च षडङ्गा च षोढा षोडशवार्षिकी ॥ 7 ॥
क्रतुरूपा क्रतुमती ऋभुक्षक्रतुमण्डिता ।
कवर्गादिपवर्गान्ता अन्तस्थाऽनन्तरूपिणी ॥ 8 ॥
अकाराकाररहिता कालमृत्युजरापहा ।
तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी ॥ 9 ॥
काली कराली कामेशी छाया सञ्ज्ञाप्यरुन्धती ।
निर्विकल्पा महावेगा महोत्साहा महोदरी ॥ 10 ॥
मेघा बलाका विमला विमलज्ञानदायिनी ।
गौरी वसुन्धरा गोप्त्री गवां पतिनिषेविता ॥ 11 ॥
भगाङ्गा भगरूपा च भक्तिभावपरायणा ।
छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा ॥ 12 ॥
धर्मकर्मादिरहिता धर्मकर्मपरायणा ।
सीता मातङ्गिनी मेधा मधुदैत्यविनाशिनी ॥ 13 ॥
भैरवी भुवना माताऽभयदा भवसुन्दरी ।
भावुका बगला कृत्या बाला त्रिपुरसुन्दरी ॥ 14 ॥
रोहिणी रेवती रम्या रम्भा रावणवन्दिता ।
शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा ॥ 15 ॥
शतचन्द्रानना देवी सहस्रादित्यसन्निभा ।
सोमसूर्याग्निनयना व्याघ्रचर्माम्बरावृता ॥ 16 ॥
अर्धेन्दुधारिणी मत्ता मदिरा मदिरेक्षणा ।
इति ते कथितं गोप्यं नाम्नामष्टोत्तरं शतम् ॥ 17 ॥
सुन्दर्याः सर्वदं सेव्यं महापातकनाशनम् ।
गोपनीयं गोपनीयं गोपनीयं कलौ युगे ॥ 18 ॥
सहस्रनामपाठस्य फलं यद्वै प्रकीर्तितम् ।
तस्मात्कोटिगुणं पुण्यं स्तवस्यास्य प्रकीर्तनात् ॥ 19 ॥
पठेत्सदा भक्तियुतो नरो यो
निशीथकालेऽप्यरुणोदये वा ।
प्रदोषकाले नवमीदिनेऽथवा
लभेत भोगान्परमाद्भुतान्प्रियान् ॥ 20 ॥
इति ब्रह्मयामले पूर्वखण्डे षोडश्यष्टोत्तरशतनाम स्तोत्रम् ।
sri shodashi tripura sundari ashtottara satanama stotram in devanagari
Leave a Comment