Sri Pitambara Bagalamukhi Upanishad in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
ओं अथ हैनां ब्रह्मरन्ध्रे सुभगां ब्रह्मास्त्रस्वरूपिणीमाप्नोति ब्रह्मास्त्रां महाविद्यां शाम्भवीं सर्वस्तम्भकरीं सिद्धां चतुर्भुजां दक्षाभ्यां कराभ्यां मुद्गरपाशौ वामाभ्यां शत्रुजिह्वावज्रे दधानां पीतवाससं पीतालङ्कारसम्पन्नां दृढीभूतपीनोन्नतपयोधरयुग्माढ्यां तप्तकार्तस्वरकुण्डलद्वयविराजितमुखाम्भोजां ललाटपट्टोल्लसत्पीतचन्द्रार्धमनुबिभ्रतीमुद्यद्दिवाकरोद्योतां स्वर्णसिंहासनमध्यकमलसंस्थां धिया सञ्चिन्त्य तदुपरि त्रिकोणषट्कोणवसुपत्रवृत्तान्तः षोडशदलकमलोपरि भूबिम्बत्रयमनुसन्धाय तत्राद्ययोन्यन्तरे देवीमाहूय ध्यायेत् । योनिं जगद्योनिं समायमुच्चार्य शिवान्ते भूमाग्रबिन्दुमिन्दुखण्डमग्निबीजं ततो वरुणाङ्कगुणार्णमत्रियुतं स्थिरामुखि इति सम्बोध्य सर्वदुष्टानामिदं चाभाष्य वाचमिति मुखमिति पदमिति स्तम्भयेति वोच्चार्य जिह्वां वैशारदीं कीलयेति बुद्धिं विनाशयेति प्रोच्चार्य भूमायां वेदाद्यं ततो यज्ञभूगुहायां योजयेत् । स महास्तम्भेश्वरः सर्वेश्वरः । स सेनास्तम्भं करोति । किं बहुना विवस्वद्धृतिस्तम्भकर्ता सर्ववातस्तम्भकर्तेति । किं दिवाकर्षयति । स सर्वविद्येश्वरः सर्वमन्त्रेश्वरो भूत्वा पूजाया आवर्तनं त्रैलोक्यस्तम्भिन्याः कुर्यात् । अङ्गमाद्यं द्वारतो गणेशं वटुकं योगिनीं क्षेत्राधीशं च पूर्वादिकमभ्यर्च्य गुरुपङ्क्तिमीशासुरान्तमन्तः प्राच्यादौ क्रमानुगता बगला स्तम्भिनी जृम्भिणी मोहिनी वश्या अचला चला दुर्धरा अकल्मषा आधारा कल्पना कालकर्षिणी भ्रमरिका मदगमना भोगा योगिका एता ह्यष्टदलानुगताः पूज्याः । ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराही नारसिंही चामुण्डा महालक्ष्मीश्च । षड्योनिगर्भान्ता डाकिनी राकिनी लाकिनी काकिनी शाकिनी हाकिनी वेद्याद्यस्थिरमायाद्याः समभ्यर्च्य शक्राग्नियमनिरृतिवरुणवायव्यधनदेशानप्रजापतिनागेशाः परिवाराभिमताः स्थिरादिवेदाद्याः सवाहनाः सदस्त्रका बाह्यतोऽभ्यर्च्य तां योनिं रतिप्रीतिमनोभवा एताः सर्वाः समाः पीतांशुका ध्येयाः । तदन्तमूलायां बलादिषोडशानुगताः पूज्याः नीराजनैः । स हैश्वर्ययुक्तो भवति । य एनां ध्यायति स वाग्मी भवति । सोऽमृतमश्नुते । सर्वसिद्धिकर्ता भवति । सृष्टिस्थितिसंहारकर्ता भवति । स सर्वेश्वरो भवति । स तु ऋद्धीश्वरो भवति । स शाक्तः स वैष्णवः स गणपः स शैवः । स जीवन्मुक्तो भवति । स सन्न्यासी भवति । न्यसनं न्यासः । सम्यङ्न्यासः सन्न्यासः । न तु मुण्डितमुण्डः । षट्त्रिंशदस्त्रेश्वरो भवेत् सौभाग्यार्चनेनेति प्रोतं वेद । ओं शिवम् ॥
इति श्री पीताम्बरोपनिषत् ॥
Leave a Comment