Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री बगलामुखी सूक्तम् (कृत्यापरिहरणसूक्तम्)

Sri Bagalamukhi Suktam in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

(अ.वे.का-५.सू-३१)

यां ते॑ च॒क्रुरा॒मे पात्रे॒ यां च॒क्रुर्मि॒श्रधा॑न्ये ।
आ॒मे मां॒से कृ॒त्यां यां च॒क्रुः पुन॒: प्रति॑ हरामि॒ ताम् ॥ १ ॥

यां ते॑ च॒क्रुः कृ॑क॒वाका॑व॒जे वा॒ यां कु॑री॒रिणि॑ ।
अव्यां ते कृत्यां यां च॒क्रुः पुन॒: प्रति॑ हरामि॒ ताम् ॥ २ ॥

यां ते॑ च॒क्रुरेक॑शफे पशू॒नामुभ॒याद॑ति ।
ग॒र्द॒भे कृ॒त्यां यां च॒क्रुः पुन॒: प्रति॑ हरामि॒ ताम् ॥ ३ ॥

यां ते॑ च॒क्रुर॑मू॒लायां॑ वल॒गं वा॑ नरा॒च्याम् ।
क्षेत्रे॑ ते कृ॒त्यां यां च॒क्रुः पुन॒: प्रति॑ हरामि॒ ताम् ॥ ४ ॥

यां ते॑ च॒क्रुर्गार्ह॑पत्ये पूर्वा॒ग्नावु॒त दु॒श्चित॑: ।
शाला॑यां कृ॒त्यां यां च॒क्रुः पुन॒: प्रति॑ हरामि॒ ताम् ॥ ५ ॥

यां ते॑ च॒क्रुः स॒भायां॒ यां च॒क्रुर॑धि॒देव॑ने ।
अ॒क्षेषु॑ कृ॒त्यां यां च॒क्रुः पुन॒: प्रति॑ हरामि॒ ताम् ॥ ६ ॥

यां ते॑ च॒क्रुः सेना॑यां॒ यां च॒क्रुरि॑ष्वायु॒धे ।
दु॒न्दु॒भौ कृ॒त्यां यां च॒क्रुः पुन॒: प्रति॑ हरामि॒ ताम् ॥ ७ ॥

यां ते॑ कृ॒त्यां कूपे॑ऽवद॒धुः श्म॑शा॒ने वा॑ निच॒ख्नुः ।
सद्म॑नि कृ॒त्यां यां च॒क्रुः पुन॒: प्रति॑ हरामि॒ ताम् ॥ ८ ॥

यां ते॑ च॒क्रुः पु॑रुषा॒स्थे अ॒ग्नौ सङ्क॑सुके च॒ याम् ।
म्रो॒कं नि॑र्दा॒हं क्र॒व्यादं॒ पुन॒: प्रति॑ हरामि॒ ताम् ॥ ९ ॥

अप॑थे॒ना ज॑भारैणां॒ तां प॒थेतः प्र हि॑ण्मसि ।
अधी॑रो मर्या॒धीरे॑भ्य॒: सं ज॑भा॒राचि॑त्त्या ॥ १० ॥

यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म् ।
च॒कार॑ भ॒द्रम॒स्मभ्य॑मभ॒गो भग॑वद्भ्यः ॥ ११ ॥

कृ॒त्या॒कृतं॑ वल॒गिनं॑ मू॒लिनं॑ शपथे॒य्यम् ।
इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेना॒ग्निर्वि॑ध्यत्व॒स्तया॑ ॥ १२ ॥

इति अथर्ववेदे पंचमकांडे षष्ठोऽनुवाके कृत्यापरिहरण सूक्तम् ॥

Copy
Give Feedback