Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

देवी वैभवाश्चर्य अष्टोत्तर शत नाम स्तोत्रम्

Devi Vaibhava Ashcharya Ashtottara Sata Nama Stotram in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

devi vaibhava ashcharya ashtottara sata nama stotram in devanagari

अस्य श्री देवीवैभवाश्चर्याष्टोत्तरशतदिव्यनाम स्तोत्रमहामन्त्रस्य आनन्दभैरव ऋषिः, अनुष्टुप् छन्दः, श्री आनन्दभैरवी श्रीमहात्रिपुरसुन्दरी देवता, ऐं बीजं, ह्रीं शक्तिः, श्रीं कीलकं, मम श्रीआनन्दभैरवी श्रीमहात्रिपुरसुन्दरी प्रसादसिद्ध्यर्थे जपे विनियोगः ।

ध्यानम्
कुङ्कुमपङ्कसमाभा-
-मङ्कुशपाशेक्षुकोदण्डशराम् ।
पङ्कजमध्यनिषण्णां
पङ्केरुहलोचनां परां वन्दे ॥

पञ्चपूजा
लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै पुष्पैः पूजयामि ।
यं वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं अग्न्यात्मिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मिकायै सर्वोपचारान् समर्पयामि ॥

ॐ ऐं ह्रीं श्रीम् ।
परमानन्दलहरी परचैतन्यदीपिका ।
स्वयम्प्रकाशकिरणा नित्यवैभवशालिनी ॥ 1 ॥

विशुद्धकेवलाखण्डसत्यकालात्मरूपिणी ।
आदिमध्यान्तरहिता महामायाविलासिनी ॥ 2 ॥

गुणत्रयपरिच्छेत्री सर्वतत्त्वप्रकाशिनी ।
स्त्रीपुंसभावरसिका जगत्सर्गादिलम्पटा ॥ 3 ॥

अशेषनामरूपादिभेदच्छेदरविप्रभा ।
अनादिवासनारूपा वासनोद्यत्प्रपञ्चिका ॥ 4 ॥

प्रपञ्चोपशमप्रौढा चराचरजगन्मयी ।
समस्तजगदाधारा सर्वसञ्जीवनोत्सुका ॥ 5 ॥

भक्तचेतोमयानन्तस्वार्थवैभवविभ्रमा ।
सर्वाकर्षणवश्यादिसर्वकर्मधुरन्धरा ॥ 6 ॥

विज्ञानपरमानन्दविद्या सन्तानसिद्धिदा ।
आयुरारोग्यसौभाग्यबलश्रीकीर्तिभाग्यदा ॥ 7 ॥

धनधान्यमणीवस्त्रभूषालेपनमाल्यदा ।
गृहग्राममहाराज्यसाम्राज्यसुखदायिनी ॥ 8 ॥

सप्ताङ्गशक्तिसम्पूर्णसार्वभौमफलप्रदा ।
ब्रह्मविष्णुशिवेन्द्रादिपदविश्राणनक्षमा ॥ 9 ॥

भुक्तिमुक्तिमहाभक्तिविरक्त्यद्वैतदायिनी ।
निग्रहानुग्रहाध्यक्षा ज्ञाननिर्द्वैतदायिनी ॥ 10 ॥

परकायप्रवेशादियोगसिद्धिप्रदायिनी ।
शिष्टसञ्जीवनप्रौढा दुष्टसंहारसिद्धिदा ॥ 11 ॥

लीलाविनिर्मितानेककोटिब्रह्माण्डमण्डला ।
एकानेकात्मिका नानारूपिण्यर्धाङ्गनेश्वरी ॥ 12 ॥

शिवशक्तिमयी नित्यशृङ्गारैकरसप्रिया ।
तुष्टा पुष्टाऽपरिच्छिन्ना नित्ययौवनमोहिनी ॥ 13 ॥

समस्तदेवतारूपा सर्वदेवाधिदेवता ।
देवर्षिपितृसिद्धादियोगिनीभैरवात्मिका ॥ 14 ॥

निधिसिद्धिमणीमुद्रा शस्त्रास्त्रायुधभासुरा ।
छत्रचामरवादित्रपताकाव्यजनाञ्चिता ॥ 15 ॥

हस्त्यश्वरथपादातामात्यसेनासुसेविता ।
पुरोहितकुलाचार्यगुरुशिष्यादिसेविता ॥ 16 ॥

सुधासमुद्रमध्योद्यत्सुरद्रुमनिवासिनी ।
मणिद्वीपान्तरप्रोद्यत्कदम्बवनवासिनी ॥ 17 ॥

चिन्तामणिगृहान्तःस्था मणिमण्टपमध्यगा ।
रत्नसिंहासनप्रोद्यच्छिवमञ्चाधिशायिनी ॥ 18 ॥

सदाशिवमहालिङ्गमूलसङ्घट्टयोनिका ।
अन्योन्यालिङ्गसङ्घर्षकण्डूसङ्क्षुब्धमानसा ॥ 19 ॥

कलोद्यद्बिन्दुकालिन्यातुर्यनादपरम्परा ।
नादान्तानन्दसन्दोहस्वयंव्यक्तवचोऽमृता ॥ 20 ॥

कामराजमहातन्त्ररहस्याचारदक्षिणा ।
मकारपञ्चकोद्भूतप्रौढान्तोल्लाससुन्दरी ॥ 21 ॥

श्रीचक्रराजनिलया श्रीविद्यामन्त्रविग्रहा ।
अखण्डसच्चिदानन्दशिवशक्त्यैक्यरूपिणी ॥ 22 ॥

त्रिपुरा त्रिपुरेशानी महात्रिपुरसुन्दरी ।
त्रिपुरावासरसिका त्रिपुराश्रीस्वरूपिणी ॥ 23 ॥

महापद्मवनान्तस्था श्रीमत्त्रिपुरमालिनी ।
महात्रिपुरसिद्धाम्बा श्रीमहात्रिपुराम्बिका ॥ 24 ॥

नवचक्रक्रमादेवी महात्रिपुरभैरवी ।
श्रीमाता ललिता बाला राजराजेश्वरी शिवा ॥ 25 ॥

उत्पत्तिस्थितिसंहारक्रमचक्रनिवासिनी ।
अर्धमेर्वात्मचक्रस्था सर्वलोकमहेश्वरी ॥ 26 ॥

वल्मीकपुरमध्यस्था जम्बूवननिवासिनी ।
अरुणाचलशृङ्गस्था व्याघ्रालयनिवासिनी ॥ 27 ॥

श्रीकालहस्तिनिलया काशीपुरनिवासिनी ।
श्रीमत्कैलासनिलया द्वादशान्तमहेश्वरी ॥ 28 ॥

श्रीषोडशान्तमध्यस्था सर्ववेदान्तलक्षिता ।
श्रुतिस्मृतिपुराणेतिहासागमकलेश्वरी ॥ 29 ॥

भूतभौतिकतन्मात्रदेवताप्राणहृन्मयी ।
जीवेश्वरब्रह्मरूपा श्रीगुणाढ्या गुणात्मिका ॥ 30 ॥

अवस्थात्रयनिर्मुक्ता वाग्रमोमामहीमयी ।
गायत्रीभुवनेशानीदुर्गाकाल्यादिरूपिणी ॥ 31 ॥

मत्स्यकूर्मवराहादिनानारूपविलासिनी ।
महायोगीश्वराराध्या महावीरवरप्रदा ॥ 32 ॥

सिद्धेश्वरकुलाराध्या श्रीमच्चरणवैभवा ॥ 33 ॥

पुनर्ध्यानम्
कुङ्कुमपङ्कसमाभा-
-मङ्कुशपाशेक्षुकोदण्डशराम् ।
पङ्कजमध्यनिषण्णां
पङ्केरुहलोचनां परां वन्दे ॥

इति श्रीगर्भकुलार्णवतन्त्रे देवी वैभवाश्चर्याष्टोत्तरशतनाम स्तोत्रम् ।

devi vaibhava ashcharya ashtottara sata nama stotram in devanagari

Copy
Give Feedback