Sukra Ashtottara Sata Nama Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
sukra ashtottara sata nama stotram in sanskrit
शुक्रः शुचिः शुभगुणः शुभदः शुभलक्षणः ।
शोभनाक्षः शुभ्ररूपः शुद्धस्फटिकभास्वरः ॥ 1 ॥
दीनार्तिहारको दैत्यगुरुः देवाभिवन्दितः ।
काव्यासक्तः कामपालः कविः कल्याणदायकः ॥ 2 ॥
भद्रमूर्तिर्भद्रगुणो भार्गवो भक्तपालनः ।
भोगदो भुवनाध्यक्षो भुक्तिमुक्तिफलप्रदः ॥ 3 ॥
चारुशीलश्चारुरूपश्चारुचन्द्रनिभाननः ।
निधिर्निखिलशास्त्रज्ञो नीतिविद्याधुरन्धरः ॥ 4 ॥
सर्वलक्षणसम्पन्नः सर्वावगुणवर्जितः ।
समानाधिकनिर्मुक्तः सकलागमपारगः ॥ 5 ॥
भृगुर्भोगकरो भूमिसुरपालनतत्परः ।
मनस्वी मानदो मान्यो मायातीतो महाशयः ॥ 6 ॥
बलिप्रसन्नोऽभयदो बली बलपराक्रमः ।
भवपाशपरित्यागो बलिबन्धविमोचकः ॥ 7 ॥
घनाशयो घनाध्यक्षो कम्बुग्रीवः कलाधरः ।
कारुण्यरससम्पूर्णः कल्याणगुणवर्धनः ॥ 8 ॥
श्वेताम्बरः श्वेतवपुश्चतुर्भुजसमन्वितः ।
अक्षमालाधरोऽचिन्त्यो अक्षीणगुणभासुरः ॥ 9 ॥
नक्षत्रगणसञ्चारो नयदो नीतिमार्गदः ।
वर्षप्रदो हृषीकेशः क्लेशनाशकरः कविः ॥ 10 ॥
चिन्तितार्थप्रदः शान्तमतिः चित्तसमाधिकृत् ।
आधिव्याधिहरो भूरिविक्रमः पुण्यदायकः ॥ 11 ॥
पुराणपुरुषः पूज्यः पुरुहूतादिसन्नुतः ।
अजेयो विजितारातिर्विविधाभरणोज्ज्वलः ॥ 12 ॥
कुन्दपुष्पप्रतीकाशो मन्दहासो महामतिः ।
मुक्ताफलसमानाभो मुक्तिदो मुनिसन्नुतः ॥ 13 ॥
रत्नसिंहासनारूढो रथस्थो रजतप्रभः ।
सूर्यप्राग्देशसञ्चारः सुरशत्रुसुहृत् कविः ॥ 14 ॥
तुलावृषभराशीशो दुर्धरो धर्मपालकः ।
भाग्यदो भव्यचारित्रो भवपाशविमोचकः ॥ 15 ॥
गौडदेशेश्वरो गोप्ता गुणी गुणविभूषणः ।
ज्येष्ठानक्षत्रसम्भूतो ज्येष्ठः श्रेष्ठः शुचिस्मितः ॥ 16 ॥
अपवर्गप्रदोऽनन्तः सन्तानफलदायकः ।
सर्वैश्वर्यप्रदः सर्वगीर्वाणगणसन्नुतः ॥ 17 ॥
एवं शुक्रग्रहस्यैव क्रमादष्टोत्तरं शतम् ।
सर्वपापप्रशमनं सर्वपुण्यफलप्रदम् ।
यः पठेच्छृणुयाद्वापि सर्वान् कामानवाप्नुयात् ॥ 18 ॥
इति श्री शुक्र अष्टोत्तरशतनाम स्तोत्रम् ।
sukra ashtottara sata nama stotram in sanskrit
Leave a Comment