Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

शुक्र अष्टोत्तर शत नाम स्तोत्रम्

Sukra Ashtottara Sata Nama Stotram in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sukra ashtottara sata nama stotram in konkani

शुक्रः शुचिः शुभगुणः शुभदः शुभलक्षणः ।
शोभनाक्षः शुभ्ररूपः शुद्धस्फटिकभास्वरः ॥ 1 ॥

दीनार्तिहारको दैत्यगुरुः देवाभिवंदितः ।
काव्यासक्तः कामपालः कविः कल्याणदायकः ॥ 2 ॥

भद्रमूर्तिर्भद्रगुणो भार्गवो भक्तपालनः ।
भोगदो भुवनाध्यक्षो भुक्तिमुक्तिफलप्रदः ॥ 3 ॥

चारुशीलश्चारुरूपश्चारुचंद्रनिभाननः ।
निधिर्निखिलशास्त्रज्ञो नीतिविद्याधुरंधरः ॥ 4 ॥

सर्वलक्षणसंपन्नः सर्वावगुणवर्जितः ।
समानाधिकनिर्मुक्तः सकलागमपारगः ॥ 5 ॥

भृगुर्भोगकरो भूमिसुरपालनतत्परः ।
मनस्वी मानदो मान्यो मायातीतो महाशयः ॥ 6 ॥

बलिप्रसन्नोऽभयदो बली बलपराक्रमः ।
भवपाशपरित्यागो बलिबंधविमोचकः ॥ 7 ॥

घनाशयो घनाध्यक्षो कंबुग्रीवः कलाधरः ।
कारुण्यरससंपूर्णः कल्याणगुणवर्धनः ॥ 8 ॥

श्वेतांबरः श्वेतवपुश्चतुर्भुजसमन्वितः ।
अक्षमालाधरोऽचिंत्यो अक्षीणगुणभासुरः ॥ 9 ॥

नक्षत्रगणसंचारो नयदो नीतिमार्गदः ।
वर्षप्रदो हृषीकेशः क्लेशनाशकरः कविः ॥ 10 ॥

चिंतितार्थप्रदः शांतमतिः चित्तसमाधिकृत् ।
आधिव्याधिहरो भूरिविक्रमः पुण्यदायकः ॥ 11 ॥

पुराणपुरुषः पूज्यः पुरुहूतादिसन्नुतः ।
अजेयो विजितारातिर्विविधाभरणोज्ज्वलः ॥ 12 ॥

कुंदपुष्पप्रतीकाशो मंदहासो महामतिः ।
मुक्ताफलसमानाभो मुक्तिदो मुनिसन्नुतः ॥ 13 ॥

रत्नसिंहासनारूढो रथस्थो रजतप्रभः ।
सूर्यप्राग्देशसंचारः सुरशत्रुसुहृत् कविः ॥ 14 ॥

तुलावृषभराशीशो दुर्धरो धर्मपालकः ।
भाग्यदो भव्यचारित्रो भवपाशविमोचकः ॥ 15 ॥

गौडदेशेश्वरो गोप्ता गुणी गुणविभूषणः ।
ज्येष्ठानक्षत्रसंभूतो ज्येष्ठः श्रेष्ठः शुचिस्मितः ॥ 16 ॥

अपवर्गप्रदोऽनंतः संतानफलदायकः ।
सर्वैश्वर्यप्रदः सर्वगीर्वाणगणसन्नुतः ॥ 17 ॥

एवं शुक्रग्रहस्यैव क्रमादष्टोत्तरं शतम् ।
सर्वपापप्रशमनं सर्वपुण्यफलप्रदम् ।
यः पठेच्छृणुयाद्वापि सर्वान् कामानवाप्नुयात् ॥ 18 ॥

इति श्री शुक्र अष्टोत्तरशतनाम स्तोत्रम् ।

sukra ashtottara sata nama stotram in konkani

Copy
Give Feedback