Sri Ranganatha Ashtottara Sata Nama Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
sri ranganatha ashtottara sata nama stotram in sanskrit
अस्य श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य वेदव्यासो भगवानृषिः अनुष्टुप्छन्दः भगवान् श्रीमहाविष्णुर्देवता, श्रीरङ्गशायीति बीजं श्रीकान्त इति शक्तिः श्रीप्रद इति कीलकं मम समस्तपापनाशार्थे श्रीरङ्गराजप्रसाद सिद्ध्यर्थे जपे विनियोगः ।
धौम्य उवाच ।
श्रीरङ्गशायी श्रीकान्तः श्रीप्रदः श्रितवत्सलः ।
अनन्तो माधवो जेता जगन्नाथो जगद्गुरुः ॥ 1 ॥
सुरवर्यः सुराराध्यः सुरराजानुजः प्रभुः ।
हरिर्हतारिर्विश्वेशः शाश्वतः शम्भुरव्ययः ॥ 2 ॥
भक्तार्तिभञ्जनो वाग्मी वीरो विख्यातकीर्तिमान् ।
भास्करः शास्त्रतत्त्वज्ञो दैत्यशास्ताऽमरेश्वरः ॥ 3 ॥
नारायणो नरहरिर्नीरजाक्षो नरप्रियः ।
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्माङ्गो ब्रह्मपूजितः ॥ 4 ॥
कृष्णः कृतज्ञो गोविन्दो हृषीकेशोऽघनाशनः ।
विष्णुर्जिष्णुर्जितारातिः सज्जनप्रिय ईश्वरः ॥ 5 ॥
त्रिविक्रमस्त्रिलोकेशः त्रय्यर्थस्त्रिगुणात्मकः ।
काकुत्स्थः कमलाकान्तः कालीयोरगमर्दनः ॥ 6 ॥
कालाम्बुदश्यामलाङ्गः केशवः क्लेशनाशनः ।
केशिप्रभञ्जनः कान्तो नन्दसूनुररिन्दमः ॥ 7 ॥
रुक्मिणीवल्लभः शौरिर्बलभद्रो बलानुजः ।
दामोदरो हृषीकेशो वामनो मधुसूदनः ॥ 8 ॥
पूतः पुण्यजनध्वंसी पुण्यश्लोकशिखामणिः ।
आदिमूर्तिर्दयामूर्तिः शान्तमूर्तिरमूर्तिमान् ॥ 9 ॥
परम्ब्रह्म परन्धाम पावनः पवनो विभुः ।
चन्द्रश्छन्दोमयो रामः संसाराम्बुधितारकः ॥ 10 ॥
आदितेयोऽच्युतो भानुः शङ्करश्शिव ऊर्जितः ।
महेश्वरो महायोगी महाशक्तिर्महत्प्रियः ॥ 11 ॥
दुर्जनध्वंसकोऽशेषसज्जनोपास्तसत्फलम् ।
पक्षीन्द्रवाहनोऽक्षोभ्यः क्षीराब्धिशयनो विधुः ॥ 12 ॥
जनार्दनो जगद्धेतुर्जितमन्मथविग्रहः ।
चक्रपाणिः शङ्खधारी शार्ङ्गी खड्गी गदाधरः ॥ 13 ॥
एवं विष्णोश्शतं नाम्नामष्टोत्तरमिहेरितम् ।
स्तोत्राणामुत्तमं गुह्यं नामरत्नस्तवाभिधम् ॥ 14 ॥
सर्वदा सर्वरोगघ्नं चिन्तितार्थफलप्रदम् ।
त्वं तु शीघ्रं महाराज गच्छ रङ्गस्थलं शुभम् ॥ 15 ॥
स्नात्वा तुलार्के कावेर्यां माहात्म्य श्रवणं कुरु ।
गवाश्ववस्त्रधान्यान्नभूमिकन्याप्रदो भव ॥ 16 ॥
द्वादश्यां पायसान्नेन सहस्रं दश भोजय ।
नामरत्नस्तवाख्येन विष्णोरष्टशतेन च ।
स्तुत्वा श्रीरङ्गनाथं त्वमभीष्टफलमाप्नुहि ॥ 17 ॥
इति तुलाकावेरीमाहात्म्ये शन्तनुं प्रति धौम्योपदिष्ट श्रीरङ्गनाथाष्टोत्तरशतनाम स्तोत्रम् ।
sri ranganatha ashtottara sata nama stotram in sanskrit
Leave a Comment