Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री मेधा दक्षिणामूर्ति मन्त्रवर्णपद स्तुतिः

Sri Medha Dakshina Murthy Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri medha dakshina murthy stotram in sanskrit

ओमित्येकाक्षरं ब्रह्म व्याहरन्ति त्रयश्शिखाः ।
तस्मैतारात्मने मेधादक्षिणामूर्तये नमः ॥ 1 ॥

नत्वा यं मुनयस्सर्वे परंयान्ति दुरासदम् ।
नकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 2 ॥

मोहजालविनिर्मुक्तो ब्रह्मविद्याति यत्पदम् ।
मोकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 3 ॥

भवमाश्रित्ययं विद्वान् नभवोह्यभवत्परः ।
भकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 4 ॥

गगनाकारवद्भान्तमनुभात्यखिलं जगत् ।
गकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 5 ॥

वटमूलनिवासो यो लोकानां प्रभुरव्ययः ।
वकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 6 ॥

तेजोभिर्यस्यसूर्योऽसौ कालक्लृप्तिकरो भवेत् ।
तेकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 7 ॥

दक्षत्रिपुरसंहारे यः कालविषभञ्जने ।
दकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 8 ॥

क्षिप्रं भवति वाक्सिद्धिर्यन्नामस्मरणान्नृणाम् ।
क्षिकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 9 ॥

णाकारवाच्योयस्सुप्तं सन्दीपयति मे मनः ।
णाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 10 ॥

मूर्तयो ह्यष्टधायस्य जगज्जन्मादिकारणम् ।
मूकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 11 ॥

तत्त्वं ब्रह्मासि परममिति यद्गुरुबोधितः ।
सरेफतात्मने मेधादक्षिणामूर्तये नमः ॥ 12 ॥

येयं विदित्वा ब्रह्माद्या ऋषयो यान्ति निर्वृतिम् ।
येकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 13 ॥

महतां देवमित्याहुर्निगमागमयोश्शिवः ।
मकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 14 ॥

सर्वस्यजगतो ह्यन्तर्बहिर्यो व्याप्यसंस्थितः ।
ह्यकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 15 ॥

त्वमेव जगतस्साक्षी सृष्टिस्थित्यन्तकारणम् ।
मेकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 16 ॥

धामेति धातृसृष्टेर्यत्कारणं कार्यमुच्यते ।
धाङ्काररूपिणे मेधादक्षिणामूर्तये नमः ॥ 17 ॥

प्रकृतेर्यत्परं ध्यात्वा तादात्म्यं याति वै मुनिः ।
प्रकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 18 ॥

ज्ञानिनोयमुपास्यन्ति तत्त्वातीतं चिदात्मकम् ।
ज्ञाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 19 ॥

प्रज्ञा सञ्जायते यस्य ध्याननामार्चनादिभिः ।
प्रकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 20 ॥

यस्य स्मरणमात्रेण नरोमुक्तस्सबन्धनात् । [ सरोमुक्त ]
यकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 21 ॥

छवेर्यन्नेन्द्रियाण्यापुर्विषयेष्विह जाड्यताम् ।
छकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 22 ॥

स्वान्तेविदां जडानां यो दूरेतिष्ठति चिन्मयः ।
स्वाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 23 ॥

हारप्रायफणीन्द्राय सर्वविद्याप्रदायिने ।
हाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ 24 ॥

इति श्री मेधादक्षिणामूर्ति मन्त्रवर्णपद स्तुतिः ॥

sri medha dakshina murthy stotram in sanskrit

Copy
Give Feedback