Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री आञ्जनेय नवरत्न माला स्तोत्रम्

Sri Anjaneya Navaratna Mala Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri anjaneya navaratna mala stotram in sanskrit

माणिक्यं –
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।
इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ 1 ॥

मुत्यं –
यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव ।
स्मृतिर्मतिर्धृतिर्दाक्ष्यं स कर्मसु न सीदति ॥ 2 ॥

प्रवालं –
अनिर्वेदः श्रियो मूलं अनिर्वेदः परं सुखम् ।
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥ 3 ॥

मरकतं –
नमोऽस्तु रामाय सलक्ष्मणाय
देव्यै च तस्यै जनकात्मजायै ।
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यः
नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ 4 ॥

पुष्यरागं –
प्रियान्न सम्भवेद्दुःखं अप्रियादधिकं भयम् ।
ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम् ॥ 5 ॥

हीरकं –
रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः ।
रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ॥ 6 ॥

इन्द्रनीलं –
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ।
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥ 7 ॥

गोमेधिकं –
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।
यदि वास्त्येकपत्नीत्वं शीतो भव हनूमतः ॥ 8 ॥

वैडूर्यं –
निवृत्तवनवासं तं त्वया सार्धमरिन्दमम् ।
अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ 9 ॥

इति श्री आञ्जनेय नवरत्नमाला स्तोत्रम् ।

sri anjaneya navaratna mala stotram in sanskrit

Copy
Give Feedback