Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

नारायणीयं दशक 50 – वत्सासुर-बकासुरयोः वधम्

Narayaniyam Dashaka 50 in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

narayaniyam dashaka 50 in sanskrit

तरलमधुकृत् वृन्दे वृन्दावनेऽथ मनोहरे
पशुपशिशुभिः साकं वत्सानुपालनलोलुपः ।
हलधरसखो देव श्रीमन् विचेरिथ धारयन्
गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥1॥

विहितजगतीरक्षं लक्ष्मीकराम्बुजलालितं
ददति चरणद्वन्द्वं वृन्दावने त्वयि पावने ।
किमिव न बभौ सम्पत्सम्पूरितं तरुवल्लरी-
सलिलधरणीगोत्रक्षेत्रादिकं कमलापते ॥2॥

विलसदुलपे कान्तारान्ते समीरणशीतले
विपुलयमुनातीरे गोवर्धनाचलमूर्धसु ।
ललितमुरलीनादः सञ्चारयन् खलु वात्सकं
क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥3॥

रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन्
किमपि वलितस्कन्धं रन्ध्रप्रतीक्षमुदीक्षितम् ।
तमथ चरणे बिभ्रद्विभ्रामयन् मुहुरुच्चकैः
कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥4॥

निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं
निपतनजवक्षुण्णक्षोणीरुहक्षतकानने ।
दिवि परिमिलत् वृन्दा वृन्दारकाः कुसुमोत्करैः
शिरसि भवतो हर्षाद्वर्षन्ति नाम तदा हरे ॥5॥

सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली
निपतति तवेत्युक्तो बालैः सहेलमुदैरयः ।
झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमण्डलात्
कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥6॥

क्वचन दिवसे भूयो भूयस्तरे परुषातपे
तपनतनयापाथः पातुं गता भवदादयः ।
चलितगरुतं प्रेक्षामासुर्बकं खलु विस्म्रृतं
क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥7॥

पिबति सलिलं गोपव्राते भवन्तमभिद्रुतः
स किल निगिलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् ।
दलयितुमगात्त्रोट्याः कोट्या तदाऽऽशु भवान् विभो
खलजनभिदाचुञ्चुश्चञ्चू प्रगृह्य ददार तम् ॥8॥

सपदि सहजां सन्द्रष्टुं वा मृतां खलु पूतना-
मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा ।
शमननिलयं याते तस्मिन् बके सुमनोगणे
किरति सुमनोवृन्दं वृन्दावनात् गृहमैयथाः ॥9॥

ललितमुरलीनादं दूरान्निशम्य वधूजनै-
स्त्वरितमुपगम्यारादारूढमोदमुदीक्षितः ।
जनितजननीनन्दानन्दः समीरणमन्दिर-
प्रथितवसते शौरे दूरीकुरुष्व ममामयान् ॥10॥

narayaniyam dashaka 50 in sanskrit

Copy
Give Feedback