Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

गुरु ग्रह पञ्चरत्न स्तोत्रम्

Guru Graha Pancharatna Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

guru graha pancharatna stotram in sanskrit

देवानाञ्च ऋषीणाञ्च गुरुकाञ्चन सन्निभम् ।
बुद्धि मन्तं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ 1 ॥

वराक्षमालां दण्डं च कमण्डलधरं विभुम् ।
पुष्यरागाङ्कितं पीतं वरदां भावयेत् गुरुम् ॥ 2 ॥

अभीष्टवरदां देवं सर्वज्ञं सुरपूजितम् ।
सर्वकार्यर्थ सिद्ध्यर्थं प्रणमामि बृहस्पतिं सदा ॥ 3 ॥

आङ्गीरसाब्दसञ्जात अङ्गीरस कुलोद्भवः ।
इन्द्रादिदेवो देवेशो देवताभीष्टदायिकः ॥ 4 ॥

ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः ।
चतुर्भुज समन्वितं देवं तं गुरुं प्रणमाम्यहम् ॥ 5 ॥

guru graha pancharatna stotram in sanskrit

Copy
Give Feedback