Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री दुर्गा आपदुद्धारक स्तोत्रम्

Durga Apaduddharaka Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

durga apaduddharaka stotram in sanskrit

नमस्ते शरण्ये शिवे सानुकम्पे
नमस्ते जगद्व्यापिके विश्वरूपे ।
नमस्ते जगद्वन्द्यपादारविन्दे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 1 ॥

नमस्ते जगच्चिन्त्यमानस्वरूपे
नमस्ते महायोगिविज्ञानरूपे ।
नमस्ते नमस्ते सदानन्दरूपे
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 2 ॥

अनाथस्य दीनस्य तृष्णातुरस्य
भयार्तस्य भीतस्य बद्धस्य जन्तोः ।
त्वमेका गतिर्देवि निस्तारकर्त्री
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 3 ॥

अरण्ये रणे दारुणे शत्रुमध्ये-
ऽनले सागरे प्रान्तरे राजगेहे ।
त्वमेका गतिर्देवि निस्तारनौका
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 4 ॥

अपारे महादुस्तरेऽत्यन्तघोरे
विपत्सागरे मज्जतां देहभाजाम् ।
त्वमेका गतिर्देवि निस्तारहेतु-
र्नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 5 ॥

नमश्चण्डिके चण्डदुर्दण्डलीला-
समुत्खण्डिता खण्डिताऽशेषशत्रोः ।
त्वमेका गतिर्देवि निस्तारबीजं
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 6 ॥

त्वमेका सदाराधिता सत्यवादि-
न्यनेकाखिला क्रोधना क्रोधनिष्ठा ।
इडा पिङ्गला त्वं सुषुम्ना च नाडी
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 7 ॥

नमो देवि दुर्गे शिवे भीमनादे
सदासर्वसिद्धिप्रदातृस्वरूपे ।
विभूतिः शची कालरात्रिः सती त्वं
नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ 8 ॥

शरणमसि सुराणां सिद्धविद्याधराणां
मुनिमनुजपशूनां दस्युभिस्त्रासितानां
नृपतिगृहगतानां व्याधिभिः पीडितानाम् ।
त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥ 9 ॥

इदं स्तोत्रं मया प्रोक्तमापदुद्धारहेतुकम् ।
त्रिसन्ध्यमेकसन्ध्यं वा पठनाद्घोरसङ्कटात् ॥ 10 ॥

मुच्यते नात्र सन्देहो भुवि स्वर्गे रसातले ।
सर्वं वा श्लोकमेकं वा यः पठेद्भक्तिमान्सदा ॥ 11 ॥

स सर्वं दुष्कृतं त्यक्त्वा प्राप्नोति परमं पदम् ।
पठनादस्य देवेशि किं न सिद्ध्यति भूतले ।
स्तवराजमिदं देवि सङ्क्षेपात्कथितं मया ॥ 12

इति श्री सिद्धेश्वरीतन्त्रे परमशिवोक्त श्री दुर्गा आपदुद्धार स्तोत्रम् ।

durga apaduddharaka stotram in sanskrit

Copy
Give Feedback