Dakshina Murthy Dwadasha Nama Stotram in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
dakshina murthy dwadasha nama stotram in sanskrit
अथ दक्षिणामूर्तिद्वादशनामस्तोत्रं
प्रथमं दक्षिणामूर्तिर्द्वितीयं मुनिसेवितः।
ब्रह्मरूपी तृतीयं च चतुर्थं तु गुरूत्तमः।
पञ्चमं वटमूलस्थः षष्ठं वेदप्रियस्तथा।
सप्तमं तु महायोगी ह्यष्टमं त्रिजगद्गुरुः।
नवमं च विशुद्धात्मा दशमं कामितार्थदः।
एकादशं महातेजा द्वादशं मोक्षदायकः।
द्वादशैतानि नामानि सर्वलोकगुरोः कलौ।
यः पठेन्नित्यमाप्नोति नरो विद्यामनुत्तमां।
dakshina murthy dwadasha nama stotram in sanskrit
Leave a Comment