Bhartruhari Sataka Trisati Srungaara Satakam in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
bhartruhari sataka trisati srungaara satakam in sanskrit
शम्भुस्वयम्भुहरयो हरिणेक्षणानां
येनाक्रियन्त सततं गृहकुम्भदासाः ।
वाचां अगोचरचरित्रविचित्रिताय
तस्मै नमो भगवते मकरध्वजाय ॥ 2.1 ॥
स्मितेन भावेन च लज्जया भिया
पराण्मुखैरर्धकटाक्षवीक्षणैः ।
वचोभिरीर्ष्याकलहेन लीलया
समस्तभावैः खलु बन्धनं स्त्रियः ॥ 2.2 ॥
भ्रूचातुर्यात्कुष्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लज्जितान्ताश्च हासाः ।
लीलामन्दं प्रस्थितं च स्थितं च
स्त्रीणां एतद्भूषणं चायुधं च ॥ 2.3 ॥
क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरिगतैः
क्वचिद्भूरित्रस्तैः क्वचिदपि च लीलाविललितैः ।
कुमारीणां एतैर्मदनसुभगैर्नेत्रवलितैः
स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः ॥ 2.4 ॥
वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचने
वर्णः स्वर्णं अपाकरिष्णुरलिनीजिष्णुः कचानां चयः ।
बक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली
वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मण्डनम् ॥ 2.5 ॥
स्मितकिञ्चिन्मुग्धं सरलतरलो दृष्टिविभवः
परिस्पन्दो वाचां अभिनवविलासोक्तिसरसः ।
गतानां आरम्भः किसलयितलीलापरिकरः
स्पृशन्त्यास्तारुण्यं किं इव न हि रम्यं मृगदृशः ॥ 2.6 ॥
द्रष्टव्येषु किं उत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातवेष्वपि किं तद्आस्यपवनः श्रव्येषु किं तद्वचः ।
किं स्वाद्येषु तद्ओष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयं
किं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः ॥ 2.7 ॥
एताश्चलद्वलयसंहतिमेखलोत्थझङ्कार
नूपुरपराजितराजहंस्यः ।
कुर्वन्ति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ 2.8 ॥
कुङ्कुमपङ्ककलङ्कितदेहा
गौरपयोधरकम्पितहारा ।
नूपुरहंसरणत्पद्मा
कं न वशीकुरुते भुवि रामा ॥ 2.9 ॥
नूनं हि ते कविवरा विपरीतवाचो
ये नित्यं आहुरबला इति कामिनीस्ताः ।
याभिर्विलोलितरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ॥ 2.10 ॥
नूनं आज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।
यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥ 2.11 ॥
केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्वक्त्रं अपि स्वभावशुचिभीः कीर्णं द्विजानां गणैः ।
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमावित्थं
तन्वि वपुः प्रशान्तं अपि तेरागं करोत्येव नः ॥ 2.12 ॥
मुग्धे धानुष्कता केयं अपूर्वा त्वयि दृश्यते ।
यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ 2.13 ॥
सति प्रदीपे सत्यग्नौ सत्सु तारारवीन्दुषु ।
विना मे मृगशावाक्ष्या तमोभूतं इदं जगथ् ॥ 2.14 ॥
उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितं ओष्ठपल्लवं इदं कुर्वन्तु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापं अधिकं रौम्आवलिः केन सा ॥ 2.15 ॥
मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ 2.16 ॥
गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ 2.17 ॥
तस्याः स्तनौ यदि घनौ जघनं च हारि
वक्त्रं च चारु तव चित्त किं आकुलत्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ 2.18 ॥
इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरतप्रताप
प्रारम्भाः स्मरविजयदानप्रतिभुवः ।
चिरं चेतश्चोरा अभिनवविकारैकगुरवो
विलासव्यापाराः किं अपि विजयन्ते मृगदृशाम् ॥ 2.19 ॥
प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः
फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ।
प्रकृतिसुभगा विस्रम्भार्द्राः स्मरोदयदायिनी
रहसि किं अपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ 2.20 ॥
विश्रम्य विश्रम्य वनद्रुमाणां
छायासु तन्वी विचचार काचित् ।
स्तनोत्तरीयेण करोद्धृतेन
निवारयन्ती शशिनो मयूखान् ॥ 2.21 ॥
अदर्शने दर्शनमात्रकामा
दृष्ट्वा परिष्वङ्गसुखैकलोला ।
आलिङ्गितायां पुनरायताक्ष्यामाशास्महे
विग्रहयोरभेदम् ॥ 2.22 ॥
मालती शिरसि जृम्भणं मुखे
चन्दनं वपुषि कुङ्कुमाविलम् ।
वक्षसि प्रियतमा मदालसा
स्वर्ग एष परिशिष्ट आगमः ॥ 2.23 ॥
प्राङ्मां एति मनागनागतरसं जाताभिलाषां ततः
सव्रीडं तदनु श्लथोद्यमं अथ प्रध्वस्तधैर्यं पुनः ।
प्रेमार्द्रं स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं ततो
निःसङ्गाङ्गविकर्षणाधिकसुखरम्यं कुलस्त्रीरतम् ॥ 2.24 ॥
उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां किञ्चिद्उन्मीलितानाम् ।
उपरि सुरतखेदस्विन्नगण्डस्थलानामधर
मधु वधूनां भाग्यवन्तः पिबन्ति ॥ 2.25 ॥
आमीलितनयनानां यः
सुरतरसोऽनु संविदं भाति ।
मिथुरैर्मिथोऽवधारितमवितथम्
इदं एव कामनिर्बर्हणम् ॥ 2.26 ॥
इदं अनुचितं अक्रमश्च पुंसां
यदिह जरास्वपि मन्मथा विकाराः ।
तदपि च न कृतं नितम्बिनीनां
स्तनपतनावधि जीवितं रतं वा ॥ 2.27 ॥
राजस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं
को वार्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।
गच्छामः सद्म यावद्विकसितनयनेन्दीवरालोकिनीनामाक्रम्याक्रम्य
रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ 2.28 ॥
रागस्यागारं एकं नरकशतमहादुःखसम्प्राप्तिहेतुर्मोहस्योत्पत्ति
बीजं जलधरपटलं ज्ञानताराधिपस्य ।
कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं
लोकेऽस्मिन्न ह्यर्थव्रजकुलभवनयौवनादन्यदस्ति ॥ 2.29 ॥
शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि
प्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।
तन्वीनेत्रचकोरपावनविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ 2.30 ॥
संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्ग
व्यस्तधैर्यं कथं अमलधियो मानसं संविदध्युः ।
यद्येताः प्रोद्यद्इन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः
प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ॥ 2.31 ॥
सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमे
गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो
यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ 2.32 ॥
संसार तव पर्यन्तपदवी न दवीयसी ।
अन्तरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाम् ॥ 2.33 ॥
दिश वनहरिणीभ्यो वंशकाण्डच्छवीनां
कवलं उपलकोटिच्छिन्नमूलं कुशानाम् ।
शकयुवतिकपोलापाण्डुताम्बूलवल्लीदलम्
अरुणनखाग्रैः पाटितं वा वधूभ्यः ॥ 2.34 ॥
असाराः सर्वे ते विरतिविरसाः पापविषया
जुगुप्स्यन्तां यद्वा ननु सकलदोषास्पदं इति ।
तथाप्येतद्भूमौ नहि परहितात्पुण्यं अधिकं
न चास्मिन्संसारे कुवलयदृशो रम्यं अपरम् ॥ 2.35 ॥
एतत्कामफलो लोके यद्द्वयोरेकचित्तता ।
अन्यचित्तकृते कामे शवयोरिव सङ्गमः ॥ 2.351 ॥
मात्सर्यं उत्सार्य विचार्य कार्यमार्याः
समर्यादं इदं वदन्तु ।
सेव्या नितम्बाः किं उ भूधराणामत
स्मरस्मेरविलासिनीनाम् ॥ 2.36 ॥
संसारे स्वप्नसारे परिणतितरले द्वे गती पण्डितानां
तत्त्वज्ञानामृताम्भःप्लवललितधियां यातु कालः कथञ्चित् ।
नो चेन्मुग्धाङ्गनानां स्तनजघनघनाभोगसम्भोगिनीनां
स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानाम् ॥ 2.37 ॥
आवासः क्रियतां गङ्गे पापहारिणि वारिणि ।
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ 2.38 ॥
किं इह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्द्वयम्
इह पुरुषाणां सर्वदा सेवनीयम् ।
अभिनवमदलीलालालसं सुन्दरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ 2.39 ॥
सत्यं जना वच्मि न पक्षपाताल्
लोकेषु सप्तस्वपि तथ्यं एतत् ।
नान्यन्मनोहारि नितम्बिनीभ्यो
दुःखैकहेतुर्न च कश्चिदन्यः ॥ 2.40 ॥
कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्पीनोत्तुङ्ग
पयोधरेति समुखाम्भोजेति सुभ्रूरिति ।
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियं अहो मोहस्य दुश्चेष्टितम् ॥ 2.41 ॥
स्मृता भवति तापाय दृष्टा चोन्मादकारिणी ।
स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ 2.42 ॥
तावदेवामृतमयी यावल्लोचनगोचरा ।
चक्षुष्पथादतीता तु विषादप्यतिरिच्यते ॥ 2.43 ॥
नामृतं न विषं किञ्चिदेतां मुक्त्वा नितम्बिनीम् ।
सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ 2.44 ॥
आवर्तः संशयानां अविनयभुवनं पट्टणं साहसानां
दोषाणां सन्निधानं कपटशतमयं क्षेत्रं अप्रत्ययानाम् ।
स्वर्गद्वारस्य विघ्नो नरकपुरमुख सर्वमायाकरण्डं
स्त्रीयन्त्रं केन सृष्टं विषं अमृतमयं प्राणिलोकस्य पाशः ॥ 2.45 ॥
नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवरद्वन्द्वं
लोचनतां गत न कनकैरप्यङ्गयष्टिः कृता ।
किन्त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥ 2.46 ॥
लीलावतीनां सहजा विलासास्त
एव मूढस्य हृदि स्फुरन्ति ।
रागो नलिन्या हि निसर्गसिद्धस्तत्र
भ्रम्त्येव वृथा षड्अङ्घ्रिः ॥ 2.47 ॥
सम्मोहयन्ति मदयन्ति विडम्बयन्ति
निर्भर्त्स्यन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वामनयना न समाचरन्ति ॥ 2.471 ॥
यदेतत्पूर्णेन्दुद्युतिहरं उदाराकृति परं
मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधरमधु ।
इदं तत्किं पाकद्रुमफलं इदानीं अतिरसव्यतीतेऽस्मिन्
काले विषं इव भविष्य्त्यसुखदम् ॥ 2.48 ॥
उन्मीलत्त्रिवलीतरङ्गनिलया प्रोत्तुङ्गपीनस्तनद्वन्द्वेनोद्गत
चक्रवाकयुगला वक्त्राम्बुजोद्भासिनी ।
कान्ताकारधरा नदीयं अभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यताम् ॥ 2.49 ॥
जल्पन्ति सार्धं अन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥ 2.50 ॥
मधु तिष्ठति वाचि योषितां हृदि हालाहलं एव केवलम् ।
अतएव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥ 2.51 ॥
अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ।
इतरफणिना दष्टः शक्यश्चिकित्सितुं औषधैश्चतुर्
वनिताभोगिग्रस्तं हि मन्त्रिणः ॥ 2.52 ॥
विस्तारितं मकरकेतनधीवरेण
स्त्रीसञ्ज्ञितं बडिशं अत्र भवाम्बुराशौ ।
येनाचिरात्तद्अधरामिषलोलमर्त्य
मत्स्यान्विकृष्य विपचत्यनुरागवह्नौ ॥ 2.53 ॥
कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।
मा सञ्चर मनः पान्थ तत्रास्ते स्मरतस्करः ॥ 2.54 ॥
व्यादीर्घेण चलेन वक्त्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाहिना परं अहं दृष्टो न तच्चक्षुषा ।
दृष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनो
मुग्धाक्ष्क्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥ 2.55 ॥
इह हि मधुरगीतं नृत्यं एतद्रसोऽयं
स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् ।
इति हतपरमार्थैरिन्द्रियैर्भ्राम्यमाणः
स्वहितकरणधूर्तैः पञ्चभिर्वञ्चितोऽस्मि ॥ 2.56 ॥
न गम्यो मन्त्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ।
भ्रमावेशादङ्गे कं अपि विदधद्भङ्गं असकृत्
स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ 2.57 ॥
जात्य्अन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।
यच्छन्तीषु मनोहरं निजवपुलक्ष्मीलवश्रद्धया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः ॥ 2.58 ॥
वेश्यासौ मदनज्वाला
रूपेऽन्धनविवर्धिता ।
कामिभिर्यत्र हूयन्ते
यौवनानि धनानि च ॥ 2.59 ॥
कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञं अपि ।
चारभटचोरचेटकनटविटनिष्ठीवनशरावम् ॥ 2.60 ॥
धन्यास्त एव धवलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणाम् ।
क्षामोदरोपरि लसत्त्रिवलीलतानां
दृष्ट्वाकृतिं विकृतिं एति मनो न येषाम् ॥ 2.61 ॥
बाले लीलामुकुलितं अमी मन्थरा दृष्टिपाताः
किं क्षिप्यन्ते विरमविरम व्यर्थ एष श्रमस्ते ।
सम्प्रत्यन्ये वयं उपरतं बाल्यं आस्था वनान्ते
क्षीणो मोहस्तृणं इव जगज्जालं आलोकयामः ॥ 2.62 ॥
इयं बाला मां प्रत्यनवरतं इन्दीवरदलप्रभा
चीरं चक्षुः क्षिपति किं अभिप्रेतं अनया ।
गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकरज्वर
ज्वाला शान्ता तदपि न वराकी विरमति ॥ 2.63 ॥
किं कन्दर्प करं कदर्थयसि रे कोदण्डटङ्कारितं
रे रे कोकिल कौम्अलं कलरवं किं वा वृथा जल्पसि ।
मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ 2.64 ॥
विरहेऽपि सङ्गमः खलु
परस्परं सङ्गतं मनो येषाम् ।
हृदयं अपि विघट्टितं चेत्
सङ्गी विरहं विशेषयति ॥ 2.65 ॥
किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथापि किम् ।
इत्युदीक्ष्य नवमेघमालिकां
न प्रयाति पथिकः स्वमन्दिरम् ॥ 2.66 ॥
विरमत बुधा योषित्सङ्गात्सुखात्क्षणभङ्गुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ।
न खलु नरके हाराक्रान्तं घनस्तनमण्डलं
शरणं अथवा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ 2.67 ॥
यदा योगाभ्यासव्यसनकृशयोरात्ममनसोरविच्छिन्ना
मैत्री स्फुरति कृतिनस्तस्य किं उ तैः ।
प्रियाणां आलापैरधरमधुभिर्वक्त्रविधुभिः
सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ 2.68 ॥
यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं
तदा दृष्टनारीमयं इदं अशेषं जगदिति ।
इदानीं अस्माकं पटुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनं अपि ब्रह्म मनुते ॥ 2.69 ॥
तावदेव कृतिनां अपि स्फुरत्येष
निर्मलविवेकदीपकः ।
यावदेव न कुरङ्गचक्षुषां
ताड्यते चटुललोचनाञ्चलैः ॥ 2.70 ॥
वचसि भवति सङ्गत्यागं उद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानाम् ।
जघनं अरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलयनयनानां को विहातुं समर्थः ॥ 2.71 ॥
स्वपरप्रतारकोऽसौ
निन्दति योऽलीकपण्डितो युवतीः ।
यस्मात्तपसोऽपि फलं
स्वर्गः स्वर्गेऽपि चाप्सरसः ॥ 2.72 ॥
मत्तेभकुम्भदलने भुवि सन्ति धीराः
केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ।
किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य
कन्दर्पदर्पदलने विरला मनुष्याः ॥ 2.73 ॥
सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां
लज्जां तावद्विधत्ते विनयं अपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ 2.74 ॥
उन्मत्तप्रेमसंरम्भाद्
आरभन्ते यद्अङ्गनाः ।
तत्र प्रत्यूहं आधातुं
ब्रह्मापि खलु कातरः ॥ 2.75 ॥
तावन्महत्त्वं पाण्डित्यं
कुलीनत्वं विवेकिता ।
यावज्ज्वलति नाङ्गेषु
हतः पञ्चेषुपावकः ॥ 2.76 ॥
शास्त्रज्ञोऽपि प्रगुणितनयोऽत्यान्तबाधापि बाढं
संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनाम् ।
येनैतस्मिन्निरयनगरद्वारं उद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ 2.77 ॥
कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ।
क्षुधा क्षामो जीर्णः पिठरककपालार्पितगलः
शुनीं अन्वेति श्वा हतं अपि च हन्त्येव मदनः ॥ 2.78 ॥
स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसम्पत्करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ 2.79 ॥
विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनास्तेऽपि
स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ।
शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवास्तेषाम्
इन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे ॥ 2.80 ॥
परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो
मधुरविधुरोत्कण्ठाभाजः प्रिया पिकपक्षिणाम् ।
विरलविरसस्वेदोद्गारा वधूवदनेन्दवः
प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ॥ 2.81 ॥
मधुरयं मधुरैरपि कोकिला
कलरवैर्मलयस्य च वायुभिः ।
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हन्त सुधापि विषायते ॥ 2.82 ॥
आवासः किलकिञ्चितस्य दयितापार्श्वे विलासालसाः
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ।
गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः
केषाञ्चित्सुखयन्ति चात्र हृदयं चैत्रे विचित्राः क्षपाः ॥ 2.83 ॥
पान्थ स्त्रीविरहानलाहुतिकलां आतन्वती मञ्जरीमाकन्देषु
पिकाङ्गनाभिरधुना सोत्कण्ठं आलोक्यते ।
अप्येते नवपाटलापरिमलप्राग्भारपाटच्चरा
वान्तिक्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥ 2.84 ॥
प्रथितः प्रणयवतीनां
तावत्पदं आतनोतु हृदि मानः ।
भवति न यावच्चन्दनतरु
सुरभिर्मलयपवमानः ॥ 2.85 ॥
सहकारकुसुमकेसरनिकर
भरामोदमूर्च्छितदिग्अन्ते ।
मधुरमधुरविधुरमधुपे
मधौ भवेत्कस्य नोत्कण्ठा ॥ 2.86 ॥
अच्छाच्छचन्दनरसार्द्रतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च कौम्उदी च ।
मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ 2.87 ॥
स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः
परागः कासारो मलयजरजः शीधु विशदम् ।
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो
निदाघर्तावेतद्विलसति लभन्ते सुकृतिनः ॥ 2.88 ॥
सुधाशुभ्रं धाम स्फुरद्अमलरश्मिः शशधरः
प्रियावक्त्राम्भोजं मलयजरजश्चातिसुरभिः ।
स्रजो हृद्यामोदास्तदिदं अखिलं रागिणि जने
करोत्यन्तः क्षोभं न तु विषयसंसर्गविमुखे ॥ 2.89 ॥
तरुणीवेषोद्दीपितकामा
विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोधरभारा
प्रावृट्तनुते कस्य न हर्षम् ॥ 2.90 ॥
वियद्उपचितमेघं भूमयः कन्दलिन्यो
नवकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेकारावरम्या वनान्ताः
सुखिनं असुखिनं वा सर्वं उत्कण्ठयन्ति ॥ 2.91 ॥
उपरि घनं घनपटलं
तिर्यग्गिरयोऽपि नर्तितमयूराः ।
क्षितिरपि कन्दलधवला
दृष्टिं पथिकः क्व पातयति ॥ 2.92 ॥
इतो विद्युद्वल्लीविलसितं इतः केतकितरोः
स्फुरन्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितं इतः ।
इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां
कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः ॥ 2.93 ॥
असूचिसञ्चारे तमसि नभसि प्रौढजलदध्वनि
प्राज्ञम्मन्ये पतति पृषतानां च निचये ।
इदं सौदामिन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥ 2.94 ॥
आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कम्पनिमित्तं आयतदृशा गाढं समालिङ्ग्यते ।
जाताः शीकरशीतलाश्च मरुतोरत्यन्तखेदच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गमे ॥ 2.95 ॥
अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथाङ्गप्रोद्भूतासह्य
तृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
सम्भोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मन्दपुण्यः ॥ 2.96 ॥
हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः
काश्मीरद्रवसान्द्रदिग्धवपुषश्छिन्ना विचित्रै रतैः ।
वृत्तोरुस्तनकामिनोजनकृताश्लेषा गृहाभ्यन्तरे
ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ 2.97 ॥
प्रदुयत्प्रौढप्रियङ्गुद्युतिभृति विकसत्कुन्दमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविलसितोदारमन्दारधाम्नि ।
येषां नो कण्ठलग्ना क्षणं अपि तुहिनक्षोददक्षा मृगाक्षी
तेसां आयामयामा यमसदनसमा यामिनी याति यूनाम् ॥ 2.98 ॥
चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना
वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदं आपादयन्तः ।
ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तोऽंशुकानि
व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः ॥ 2.99 ॥
केशानाकुलयन्दृशो मुकुलयन्वासो बलादाक्षिपन्नातन्वन्
पुलकोद्गमं प्रकटयन्नावेगकम्पं शनैः ।
बारं बारं उदारसीत्कृतकृतो दन्तच्छदान्पीडयन्
प्रायः शैशिर एष सम्प्रति मरुत्कान्तासु कान्तायते ॥ 2.100 ॥
यद्यस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञेऽपि ।
रमणीयेऽपि सुधांशौ न मनःकामः सरोजिन्याः ॥ 2.101 ॥
वैराग्ये सञ्चरत्येको नीतौ भ्रमति चापरः ।
शृङ्गारे रमते कश्चिद्भुवि भेदाः परस्परम् ॥ 2.102 ॥
इति शुभं भूयात् ।
शृङ्गारशतकम्
भर्तृहरेः

Leave a Comment