Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

अङ्गारक कवचम् (कुज कवचम्)

Angaraka Kavacham Angaraka Kavacham in sanskrit
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

angaraka kavacham angaraka kavacham in sanskrit

अस्य श्री अङ्गारक कवचस्य, कश्यप ऋषीः, अनुष्टुप् चन्दः, अङ्गारको देवता, भौम प्रीत्यर्थे जपे विनियोगः ॥

ध्यानम्
रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् ।
धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः ॥

अथ अङ्गारक कवचम्
अङ्गारकः शिरो रक्षेत् मुखं वै धरणीसुतः ।
श्रवौ रक्तम्बरः पातु नेत्रे मे रक्तलोचनः ॥ 1 ॥

नासां शक्तिधरः पातु मुखं मे रक्तलोचनः ।
भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥2 ॥

वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः ।
कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥ 3 ॥

जानुजङ्घे कुजः पातु पादौ भक्तप्रियः सदा ।
सर्वाण्यन्यानि चाङ्गानि रक्षेन्मे मेषवाहनः ॥ 4 ॥

फलश्रुतिः
य इदं कवचं दिव्यं सर्वशत्रुनिवारणम् ।
भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ॥

सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् ।
भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम् ॥

रोगबन्धविमोक्षं च सत्यमेतन्न संशयः ॥

॥ इति श्री मार्कण्डेयपुराणे अङ्गारक कवचं सम्पूर्णम् ॥

angaraka kavacham angaraka kavacham in sanskrit

Copy
Give Feedback