Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

अंगारक कवचम् (कुज कवचम्)

Angaraka Kavacham Angaraka Kavacham in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

angaraka kavacham angaraka kavacham in konkani

अस्य श्री अंगारक कवचस्य, कश्यप ऋषीः, अनुष्टुप् चंदः, अंगारको देवता, भौम प्रीत्यर्थे जपे विनियोगः ॥

ध्यानम्
रक्तांबरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् ।
धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशांतः ॥

अथ अंगारक कवचम्
अंगारकः शिरो रक्षेत् मुखं वै धरणीसुतः ।
श्रवौ रक्तंबरः पातु नेत्रे मे रक्तलोचनः ॥ 1 ॥

नासां शक्तिधरः पातु मुखं मे रक्तलोचनः ।
भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥2 ॥

वक्षः पातु वरांगश्च हृदयं पातु रोहितः ।
कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥ 3 ॥

जानुजंघे कुजः पातु पादौ भक्तप्रियः सदा ।
सर्वाण्यन्यानि चांगानि रक्षेन्मे मेषवाहनः ॥ 4 ॥

फलश्रुतिः
य इदं कवचं दिव्यं सर्वशत्रुनिवारणम् ।
भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ॥

सर्वरोगहरं चैव सर्वसंपत्प्रदं शुभम् ।
भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम् ॥

रोगबंधविमोक्षं च सत्यमेतन्न संशयः ॥

॥ इति श्री मार्कंडेयपुराणे अंगारक कवचं संपूर्णम् ॥

angaraka kavacham angaraka kavacham in konkani

Copy
Give Feedback