Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री कामाक्षी स्तोत्रम्

Sri Kamakshi Stotram in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri kamakshi stotram in nepali

कल्पानोकहपुष्पजालविलसन्नीलालकां मातृकां
कांतां कंजदलेक्षणां कलिमलप्रध्वंसिनीं कालिकाम् ।
कांचीनूपुरहारदामसुभगां कांचीपुरीनायिकां
कामाक्षीं करिकुंभसन्निभकुचां वंदे महेशप्रियाम् ॥ 1 ॥

काशाभां शुकभासुरां प्रविलसत्कोशातकी सन्निभां
चंद्रार्कानललोचनां सुरुचिरालंकारभूषोज्ज्वलाम् ।
ब्रह्मश्रीपतिवासवादिमुनिभिः संसेवितांघ्रिद्वयां
कामाक्षीं गजराजमंदगमनां वंदे महेशप्रियाम् ॥ 2 ॥

ऐं क्लीं सौरिति यां वदंति मुनयस्तत्त्वार्थरूपां परां
वाचामादिमकारणं हृदि सदा ध्यायंति यां योगिनः ।
बालां फालविलोचनां नवजपावर्णां सुषुम्नाश्रितां
कामाक्षीं कलितावतंससुभगां वंदे महेशप्रियाम् ॥ 3 ॥

यत्पादांबुजरेणुलेशमनिशं लब्ध्वा विधत्ते विधि-
-र्विश्वं तत्परिपाति विष्णुरखिलं यस्याः प्रसादाच्चिरम् ।
रुद्रः संहरति क्षणात्तदखिलं यन्मायया मोहितः
कामाक्षीमतिचित्रचारुचरितां वंदे महेशप्रियाम् ॥ 4 ॥

सूक्ष्मात्सूक्ष्मतरां सुलक्षिततनुं क्षांताक्षरैर्लक्षितां
वीक्षाशिक्षितराक्षसां त्रिभुवनक्षेमंकरीमक्षयाम् ।
साक्षाल्लक्षणलक्षिताक्षरमयीं दाक्षायणीं साक्षिणीं
कामाक्षीं शुभलक्षणैः सुललितां वंदे महेशप्रियाम् ॥ 5 ॥

ॐकारांगणदीपिकामुपनिषत्प्रासादपारावतीं
आम्नायांबुधिचंद्रिकामघतमःप्रध्वंसहंसप्रभाम् ।
कांचीपट्टणपंजरांतरशुकीं कारुण्यकल्लोलिनीं
कामाक्षीं शिवकामराजमहिषीं वंदे महेशप्रियाम् ॥ 6 ॥

ह्रींकारात्मकवर्णमात्रपठनादैंद्रीं श्रियं तन्वतीं
चिन्मात्रां भुवनेश्वरीमनुदिनं भिक्षाप्रदानक्षमाम् ।
विश्वाघौघनिवारिणीं विमलिनीं विश्वंभरां मातृकां
कामाक्षीं परिपूर्णचंद्रवदनां वंदे महेशप्रियाम् ॥ 7 ॥

वाग्देवीति च यां वदंति मुनयः क्षीराब्धिकन्येति च
क्षोणीभृत्तनयेति च श्रुतिगिरो यां आमनंति स्फुटम् ।
एकानेकफलप्रदां बहुविधाऽऽकारास्तनूस्तन्वतीं
कामाक्षीं सकलार्तिभंजनपरां वंदे महेशप्रियाम् ॥ 8 ॥

मायामादिमकारणं त्रिजगतामाराधितांघ्रिद्वयां
आनंदामृतवारिराशिनिलयां विद्यां विपश्चिद्धियाम् ।
मायामानुषरूपिणीं मणिलसन्मध्यां महामातृकां
कामाक्षीं करिराजमंदगमनां वंदे महेशप्रियाम् ॥ 9 ॥

कांता कामदुघा करींद्रगमना कामारिवामांकगा
कल्याणी कलितावतारसुभगा कस्तूरिकाचर्चिता
कंपातीररसालमूलनिलया कारुण्यकल्लोलिनी
कल्याणानि करोतु मे भगवती कांचीपुरीदेवता ॥ 10 ॥

इति श्री कामाक्षी स्तोत्रम् ।

sri kamakshi stotram in nepali

Copy
Give Feedback