Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री दिवाकर पंचकम्

Sri Divakara Panchakam in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri divakara panchakam in nepali

अतुल्यवीर्यमुग्रतेजसं सुरं
सुकांतिमिंद्रियप्रदं सुकांतिदम् ।
कृपारसैकपूर्णमादिरूपिणं
दिवाकरं सदा भजे सुभास्वरम् ॥ 1 ॥

इनं महीपतिं च नित्यसंस्तुतं
कलासुवर्णभूषणं रथस्थितम् ।
अचिंत्यमात्मरूपिणं ग्रहाश्रयं
दिवाकरं सदा भजे सुभास्वरम् ॥ 2 ॥

उषोदयं वसुप्रदं सुवर्चसं
विदिक्प्रकाशकं कविं कृपाकरम् ।
सुशांतमूर्तिमूर्ध्वगं जगज्ज्वलं
दिवाकरं सदा भजे सुभास्वरम् ॥ 3 ॥

ऋषिप्रपूजितं वरं वियच्चरं
परं प्रभुं सरोरुहस्य वल्लभम् ।
समस्तभूमिपं च तारकापतिं
दिवाकरं सदा भजे सुभास्वरम् ॥ 4 ॥

ग्रहाधिपं गुणान्वितं च निर्जरं
सुखप्रदं शुभाशयं भयापहम् ।
हिरण्यगर्भमुत्तमं च भास्करं
दिवाकरं सदा भजे सुभास्वरम् ॥ 5 ॥

इति श्री दिवाकर पंचकम् ।

sri divakara panchakam in nepali

Copy
Give Feedback