Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री दिवाकर पञ्चकम्

Sri Divakara Panchakam in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri divakara panchakam in devanagari

अतुल्यवीर्यमुग्रतेजसं सुरं
सुकान्तिमिन्द्रियप्रदं सुकान्तिदम् ।
कृपारसैकपूर्णमादिरूपिणं
दिवाकरं सदा भजे सुभास्वरम् ॥ 1 ॥

इनं महीपतिं च नित्यसंस्तुतं
कलासुवर्णभूषणं रथस्थितम् ।
अचिन्त्यमात्मरूपिणं ग्रहाश्रयं
दिवाकरं सदा भजे सुभास्वरम् ॥ 2 ॥

उषोदयं वसुप्रदं सुवर्चसं
विदिक्प्रकाशकं कविं कृपाकरम् ।
सुशान्तमूर्तिमूर्ध्वगं जगज्ज्वलं
दिवाकरं सदा भजे सुभास्वरम् ॥ 3 ॥

ऋषिप्रपूजितं वरं वियच्चरं
परं प्रभुं सरोरुहस्य वल्लभम् ।
समस्तभूमिपं च तारकापतिं
दिवाकरं सदा भजे सुभास्वरम् ॥ 4 ॥

ग्रहाधिपं गुणान्वितं च निर्जरं
सुखप्रदं शुभाशयं भयापहम् ।
हिरण्यगर्भमुत्तमं च भास्करं
दिवाकरं सदा भजे सुभास्वरम् ॥ 5 ॥

इति श्री दिवाकर पञ्चकम् ।

sri divakara panchakam in devanagari

Copy
Give Feedback