Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

नवग्रह कवचम्

Nava Graha Kavacham in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

nava graha kavacham in nepali

शिरो मे पातु मार्तांडो कपालं रोहिणीपतिः ।
मुखमंगारकः पातु कंठश्च शशिनंदनः ॥ 1 ॥

बुद्धिं जीवः सदा पातु हृदयं भृगुनंदनः ।
जठरं च शनिः पातु जिह्वां मे दितिनंदनः ॥ 2 ॥

पादौ केतुः सदा पातु वाराः सर्वांगमेव च ।
तिथयोऽष्टौ दिशः पांतु नक्षत्राणि वपुः सदा ॥ 3 ॥

अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव च ।
गुह्यं लिंगं सदा पांतु सर्वे ग्रहाः शुभप्रदाः ॥ 4 ॥

अणिमादीनि सर्वाणि लभते यः पठेद् धृवम् ।
एतां रक्षां पठेद् यस्तु भक्त्या स प्रयतः सुधीः ॥ 5 ॥

स चिरायुः सुखी पुत्री रणे च विजयी भवेत् ।
अपुत्रो लभते पुत्रं धनार्थी धनमाप्नुयात् ॥ 6 ॥

दारार्थी लभते भार्यां सुरूपां सुमनोहराम् ।
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बंधनात् ॥ 7 ॥

जले स्थले चांतरिक्षे कारागारे विशेषतः ।
यः करे धारयेन्नित्यं भयं तस्य न विद्यते ॥ 8 ॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ।
सर्वपापैः प्रमुच्येत कवचस्य च धारणात् ॥ 9 ॥

नारी वामभुजे धृत्वा सुखैश्वर्यसमन्विता ।
काकवंध्या जन्मवंध्या मृतवत्सा च या भवेत् ।
बह्वपत्या जीववत्सा कवचस्य प्रसादतः ॥ 10 ॥

इति ग्रहयामले उत्तरखंडे नवग्रह कवचं समाप्तम् ।

nava graha kavacham in nepali

Copy
Give Feedback