Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

नारायणीयं दशक 11 – सनकादीनां वैकुंठदर्शनं च हिरण्याक्षस्य तथा हिरण्यकशिपोः जननम्

Narayaniyam Dashaka 11 in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

narayaniyam dashaka 11 in nepali

क्रमेण सर्गे परिवर्धमाने
कदापि दिव्याः सनकादयस्ते ।
भवद्विलोकाय विकुंठलोकं
प्रपेदिरे मारुतमंदिरेश ॥1॥

मनोज्ञनैश्रेयसकाननाद्यै-
रनेकवापीमणिमंदिरैश्च ।
अनोपमं तं भवतो निकेतं
मुनीश्वराः प्रापुरतीतकक्ष्याः ॥2॥

भवद्दिद्दृक्षून्भवनं विविक्षून्
द्वाःस्थौ जयस्तान् विजयोऽप्यरुंधाम् ।
तेषां च चित्ते पदमाप कोपः
सर्वं भवत्प्रेरणयैव भूमन् ॥3॥

वैकुंठलोकानुचितप्रचेष्टौ
कष्टौ युवां दैत्यगतिं भजेतम् ।
इति प्रशप्तौ भवदाश्रयौ तौ
हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥4॥

तदेतदाज्ञाय भवानवाप्तः
सहैव लक्ष्म्या बहिरंबुजाक्ष ।
खगेश्वरांसार्पितचारुबाहु-
रानंदयंस्तानभिराममूर्त्या ॥5॥

प्रसाद्य गीर्भिः स्तुवतो मुनींद्रा-
ननन्यनाथावथ पार्षदौ तौ ।
संरंभयोगेन भवैस्त्रिभिर्मा-
मुपेतमित्यात्तकृपं न्यगादीः ॥6॥

त्वदीयभृत्यावथ काश्यपात्तौ
सुरारिवीरावुदितौ दितौ द्वौ ।
संध्यासमुत्पादनकष्टचेष्टौ
यमौ च लोकस्य यमाविवान्यौ ॥7॥

हिरण्यपूर्वः कशिपुः किलैकः
परो हिरण्याक्ष इति प्रतीतः ।
उभौ भवन्नाथमशेषलोकं
रुषा न्यरुंधां निजवासनांधौ ॥8॥

तयोर्हिरण्याक्षमहासुरेंद्रो
रणाय धावन्ननवाप्तवैरी ।
भवत्प्रियां क्ष्मां सलिले निमज्य
चचार गर्वाद्विनदन् गदावान् ॥9॥

ततो जलेशात् सदृशं भवंतं
निशम्य बभ्राम गवेषयंस्त्वाम् ।
भक्तैकदृश्यः स कृपानिधे त्वं
निरुंधि रोगान् मरुदालयेश ॥10।

narayaniyam dashaka 11 in nepali

Copy
Give Feedback