Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

दुर्गा कवचम् (ब्रह्मांड पुराणम्)

Durga Kavacham Brahmanda Puranam in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

durga kavacham brahmanda puranam in nepali

नारायण उवाच ।
ॐ दुर्गेति चतुर्थ्यंतः स्वाहांतो मे शिरोऽवतु ।
मंत्रः षडक्षरोऽयं च भक्तानां कल्पपादपः ॥ 1 ॥

विचारो नास्ति वेदेषु ग्रहणेऽस्य मनोर्मुने ।
मंत्रग्रहणमात्रेण विष्णुतुल्यो भवेन्नरः ॥ 2 ॥

मम वक्त्रं सदा पातु ॐ दुर्गायै नमोऽंततः ।
ॐ दुर्गे रक्षयति च कंठं पातु सदा मम ॥ 3 ॥

ॐ ह्रीं श्रीमिति मंत्रोऽयं स्कंधं पातु निरंतरम् ।
ह्रीं श्रीं क्लीमिति पृष्ठं च पातु मे सर्वतः सदा ॥ 4 ॥

ह्रीं मे वक्षःस्थलं पातु हस्तं श्रीमिति संततम् ।
श्रीं ह्रीं क्लीं पातु सर्वांगं स्वप्ने जागरणे तथा ॥ 5 ॥

प्राच्यां मां प्रकृतिः पातुः पातु वह्नौ च चंडिका ।
दक्षिणे भद्रकाली च नैरृत्यां च महेश्वरी ॥ 6 ॥

वारुण्यां पातु वाराही वायव्यां सर्वमंगला ।
उत्तरे वैष्णवी पातु तथैशान्यां शिवप्रिया ॥ 7 ॥

जले स्थले चांतरिक्षे पातु मां जगदंबिका ।
इति ते कथितं वत्स कवचं च सुदुर्लभम् ॥ 8 ॥

यस्मै कस्मै न दातव्यं प्रवक्तव्यं न कस्यचित् ।
गुरुमभ्यर्च्य विधिवद्वस्त्रालंकारचंदनैः ।
कवचं धारयेद्यस्तु सोऽपि विष्णुर्न संशयः ॥ 9 ॥

इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखंडे नारदनारायणसंवादे दुर्गोपाख्याने सप्तषष्टितमोऽध्याये ब्रह्मांडमोहनं नाम श्री दुर्गा कवचम् ।

durga kavacham brahmanda puranam in nepali

Copy
Give Feedback