Bruhaspati Kavacham Guru Kavacham in nepali
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
bruhaspati kavacham guru kavacham in nepali
अस्य श्रीबृहस्पति कवचमहा मंत्रस्य, ईश्वर ऋषिः,
अनुष्टुप् छंदः, बृहस्पतिर्देवता,
गं बीजं, श्रीं शक्तिः, क्लीं कीलकम्,
बृहस्पति प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
ध्यानम्
अभीष्टफलदं वंदे सर्वज्ञं सुरपूजितम् ।
अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् ॥
अथ बृहस्पति कवचम्
बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः ।
कर्णौ सुरगुरुः पातु नेत्रे मेभीष्टदायकः ॥ 1 ॥
जिह्वां पातु सुराचार्यः नासं मे वेदपारगः ।
मुखं मे पातु सर्वज्ञः कंठं मे देवतागुरुः ॥ 2 ॥
भुजा वंगीरसः पातु करौ पातु शुभप्रदः ।
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ 3 ॥
नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः ।
कटिं पातु जगद्वंद्यः ऊरू मे पातु वाक्पतिः ॥ 4 ॥
जानुजंघे सुराचार्यः पादौ विश्वात्मकः सदा ।
अन्यानि यानि चांगानि रक्षेन्मे सर्वतो गुरुः ॥ 5 ॥
फलशृतिः
इत्येतत्कवचं दिव्यं त्रिसंध्यं यः पठेन्नरः ।
सर्वान् कामानवाप्नोति सर्वत्र विजयी भवेत् ॥
॥ इति श्री बृहस्पति कवचम् ॥
bruhaspati kavacham guru kavacham in nepali
Leave a Comment