Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्रि दत्तात्रेय स्तोत्रम्

Sri Dattatreya Stotram in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri dattatreya stotram in marathi

जटाधरं पांडुरांगं शूलहस्तं कृपानिधिम् ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ 1 ॥

अस्य श्रीदत्तात्रेयस्तोत्रमंत्रस्य भगवान्नारदृषिः । अनुष्टुप् छंदः । श्रीदत्तः परमात्मा देवता । श्रीदत्तात्रेय प्रीत्यर्थे जपे विनियोगः ॥

नारद उवाच ।
जगदुत्पत्तिकर्त्रे च स्थितिसंहारहेतवे ।
भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तु ते ॥ 1 ॥

जराजन्मविनाशाय देहशुद्धिकराय च ।
दिगंबर दयामूर्ते दत्तात्रेय नमोऽस्तु ते ॥ 2 ॥

कर्पूरकांतिदेहाय ब्रह्ममूर्तिधराय च ।
वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तु ते ॥ 3 ॥

ह्रस्वदीर्घकृशस्थूलनामगोत्रविवर्जित ।
पंचभूतैकदीप्ताय दत्तात्रेय नमोऽस्तु ते ॥ 4 ॥

यज्ञभोक्ते च यज्ञाय यज्ञरूपधराय च ।
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोऽस्तु ते ॥ 5 ॥

आदौ ब्रह्मा हरिर्मध्ये ह्यंते देवस्सदाशिवः ।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोऽस्तु ते ॥ 6 ॥

भोगालयाय भोगाय योगयोग्याय धारिणे ।
जितेंद्रिय जितज्ञाय दत्तात्रेय नमोऽस्तु ते ॥ 7 ॥

दिगंबराय दिव्याय दिव्यरूपधराय च ।
सदोदितपरब्रह्म दत्तात्रेय नमोऽस्तु ते ॥ 8 ॥

जंबूद्वीपे महाक्षेत्रे मातापुरनिवासिने ।
जयमान सतां देव दत्तात्रेय नमोऽस्तु ते ॥ 9 ॥

भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ।
नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तु ते ॥ 10 ॥

ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले ।
प्रज्ञानघनबोधाय दत्तात्रेय नमोऽस्तु ते ॥ 11 ॥

अवधूत सदानंद परब्रह्मस्वरूपिणे ।
विदेहदेहरूपाय दत्तात्रेय नमोऽस्तु ते ॥ 12 ॥

सत्यरूप सदाचार सत्यधर्मपरायण ।
सत्याश्रयपरोक्षाय दत्तात्रेय नमोऽस्तु ते ॥ 13 ॥

शूलहस्तगदापाणे वनमालासुकंधर ।
यज्ञसूत्रधर ब्रह्मन् दत्तात्रेय नमोऽस्तु ते ॥ 14 ॥

क्षराक्षरस्वरूपाय परात्परतराय च ।
दत्तमुक्तिपरस्तोत्र दत्तात्रेय नमोऽस्तु ते ॥ 15 ॥

दत्त विद्याढ्य लक्ष्मीश दत्त स्वात्मस्वरूपिणे ।
गुणनिर्गुणरूपाय दत्तात्रेय नमोऽस्तु ते ॥ 16 ॥

शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम् ।
सर्वपापं शमं याति दत्तात्रेय नमोऽस्तु ते ॥ 17 ॥

इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम् ।
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥ 18 ॥

इति श्रीनारदपुराणे नारदविरचितं श्री दत्तात्रेय स्तोत्रम् ।

sri dattatreya stotram in marathi

Copy
Give Feedback