Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

ऋण विमोचन गणपति स्तोत्रम्

Runa Vimochana Ganapathi Stotram in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

runa vimochana ganapathi stotram in marathi

स्मरामि देवदेवेशं वक्रतुंडं महाबलम् ।
षडक्षरं कृपासिंधुं नमामि ऋणमुक्तये ॥ 1 ॥

एकाक्षरं ह्येकदंतं एकं ब्रह्म सनातनम् ।
एकमेवाद्वितीयं च नमामि ऋणमुक्तये ॥ 2 ॥

महागणपतिं देवं महासत्त्वं महाबलम् ।
महाविघ्नहरं शंभोः नमामि ऋणमुक्तये ॥ 3 ॥

कृष्णांबरं कृष्णवर्णं कृष्णगंधानुलेपनम् ।
कृष्णसर्पोपवीतं च नमामि ऋणमुक्तये ॥ 4 ॥

रक्तांबरं रक्तवर्णं रक्तगंधानुलेपनम् ।
रक्तपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ 5 ॥

पीतांबरं पीतवर्णं पीतगंधानुलेपनम् ।
पीतपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ 6 ॥

धूम्रांबरं धूम्रवर्णं धूम्रगंधानुलेपनम् ।
होमधूमप्रियं देवं नमामि ऋणमुक्तये ॥ 7 ॥

फालनेत्रं फालचंद्रं पाशांकुशधरं विभुम् ।
चामरालंकृतं देवं नमामि ऋणमुक्तये ॥ 8 ॥

इदं त्वृणहरं स्तोत्रं संध्यायां यः पठेन्नरः ।
षण्मासाभ्यंतरेणैव ऋणमुक्तो भविष्यति ॥ 9 ॥

इति ऋणविमोचन महागणपति स्तोत्रम् ।

runa vimochana ganapathi stotram in marathi

Copy
Give Feedback