Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

ऋण विमोचन गणपति स्तोत्रम्

Runa Vimochana Ganapathi Stotram in devanagari
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

runa vimochana ganapathi stotram in devanagari

स्मरामि देवदेवेशं वक्रतुण्डं महाबलम् ।
षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये ॥ 1 ॥

एकाक्षरं ह्येकदन्तं एकं ब्रह्म सनातनम् ।
एकमेवाद्वितीयं च नमामि ऋणमुक्तये ॥ 2 ॥

महागणपतिं देवं महासत्त्वं महाबलम् ।
महाविघ्नहरं शम्भोः नमामि ऋणमुक्तये ॥ 3 ॥

कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् ।
कृष्णसर्पोपवीतं च नमामि ऋणमुक्तये ॥ 4 ॥

रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् ।
रक्तपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ 5 ॥

पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम् ।
पीतपुष्पप्रियं देवं नमामि ऋणमुक्तये ॥ 6 ॥

धूम्राम्बरं धूम्रवर्णं धूम्रगन्धानुलेपनम् ।
होमधूमप्रियं देवं नमामि ऋणमुक्तये ॥ 7 ॥

फालनेत्रं फालचन्द्रं पाशाङ्कुशधरं विभुम् ।
चामरालङ्कृतं देवं नमामि ऋणमुक्तये ॥ 8 ॥

इदं त्वृणहरं स्तोत्रं सन्ध्यायां यः पठेन्नरः ।
षण्मासाभ्यन्तरेणैव ऋणमुक्तो भविष्यति ॥ 9 ॥

इति ऋणविमोचन महागणपति स्तोत्रम् ।

runa vimochana ganapathi stotram in devanagari

Copy
Give Feedback