Rahu Ashtottara Sata Nama Stotram in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
rahu ashtottara sata nama stotram in marathi
शृणु नामानि राहोश्च सैंहिकेयो विधुंतुदः ।
सुरशत्रुस्तमश्चैव फणी गार्ग्यायणस्तथा ॥ 1 ॥
सुरागुर्नीलजीमूतसंकाशश्च चतुर्भुजः ।
खड्गखेटकधारी च वरदायकहस्तकः ॥ 2 ॥
शूलायुधो मेघवर्णः कृष्णध्वजपताकवान् ।
दक्षिणाशामुखरतः तीक्ष्णदंष्ट्रधराय च ॥ 3 ॥
शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः ।
माषप्रियः कश्यपर्षिनंदनो भुजगेश्वरः ॥ 4 ॥
उल्कापातजनिः शूली निधिपः कृष्णसर्पराट् ।
विषज्वलावृतास्योऽर्धशरीरो जाद्यसंप्रदः ॥ 5 ॥
रवींदुभीकरश्छायास्वरूपी कठिनांगकः ।
द्विषच्चक्रच्छेदकोऽथ करालास्यो भयंकरः ॥ 6 ॥
क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः ।
किरीटी नीलवसनः शनिसामंतवर्त्मगः ॥ 7 ॥
चांडालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा ।
शनिवत्फलदः शूरोऽपसव्यगतिरेव च ॥ 8 ॥
उपरागकरः सूर्यहिमांशुच्छविहारकः ।
नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ॥ 9 ॥
कबंधमात्रदेहश्च यातुधानकुलोद्भवः ।
गोविंदवरपात्रं च देवजातिप्रविष्टकः ॥ 10 ॥
क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः ।
मानेगंगास्नानदाता स्वगृहेप्रबलाढ्यकः ॥ 11 ॥
सद्गृहेऽन्यबलधृच्चतुर्थे मातृनाशकः ।
चंद्रयुक्ते तु चंडालजन्मसूचक एव तु ॥ 12 ॥
जन्मसिंहे राज्यदाता महाकायस्तथैव च ।
जन्मकर्ता विधुरिपु मत्तको ज्ञानदश्च सः ॥ 13 ॥
जन्मकन्याराज्यदाता जन्महानिद एव च ।
नवमे पितृहंता च पंचमे शोकदायकः ॥ 14 ॥
द्यूने कलत्रहंता च सप्तमे कलहप्रदः ।
षष्ठे तु वित्तदाता च चतुर्थे वैरदायकः ॥ 15 ॥
नवमे पापदाता च दशमे शोकदायकः ।
आदौ यशः प्रदाता च अंते वैरप्रदायकः ॥ 16 ॥
कालात्मा गोचराचारो धने चास्य ककुत्प्रदः ।
पंचमे धिषणाशृंगदः स्वर्भानुर्बली तथा ॥ 17 ॥
महासौख्यप्रदायी च चंद्रवैरी च शाश्वतः ।
सुरशत्रुः पापग्रहः शांभवः पूज्यकस्तथा ॥ 18 ॥
पाटीरपूरणश्चाथ पैठीनसकुलोद्भवः ।
दीर्घकृष्णोऽतनुर्विष्णुनेत्रारिर्देवदानवौ ॥ 19 ॥
भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः ।
एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ 20 ॥
श्रद्धया यो जपेन्नित्यं मुच्यते सर्वसंकटात् ।
सर्वसंपत्करस्तस्य राहुरिष्टप्रदायकः ॥ 21 ॥
इति श्री राहु अष्टोत्तरशतनाम स्तोत्रम् ।
rahu ashtottara sata nama stotram in marathi
Leave a Comment