Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

प्रश्नोपनिषद् – षष्ठः प्रश्नः

Prashnopanishad Question 6 in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

prashnopanishad question 6 in marathi

षष्ठः प्रश्नः

अथ हैनं सुकेशा भारद्वाजः पप्रच्छ –
भगवन्‌ हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत –
षोडशकलं भारद्वाज पुरुषं-वेँत्थ। तमहं कुमारंब्रुवं नाहमिमं-वेँद यध्यहमिममवेदिषं कथं ते नावक्ष्यमिति ।
समूलो वा एष परिशुष्यति योऽनृतमभिवदति। तस्मान्नार्​हम्यनृतं-वँक्तुम्‌। स तूष्णीं रथमारुह्य प्रवव्राज। तं त्वा पृच्छामि क्वासौ पुरुष इति ॥1॥

तस्मै स होवाच ।
इहैवांतःशरीरे सोभ्य स पुरुषो यस्मिन्नताः षोडशकलाः प्रभवंतीति ॥2॥

स ईक्षांचक्रे। कस्मिन्नहमुत्क्रांत उत्क्रांतो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्टस्यामीति ॥3॥

स प्राणमसृजत। प्राणाच्छ्रद्धां खं-वाँयुर्ज्योतिरापः पृथिवींद्रियं मनोऽन्नमन्नाद्वीर्यं तपो मंत्राः कर्मलोका लोकेषु च नाम च ॥4॥

स यथेमा नध्यः स्यंदमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छंति भिध्येते तासां नामरुपे समुद्र इत्येवं प्रोच्यते।
एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छंति भिध्येते चासां नामरुपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥5॥

अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः।
तं-वेँध्यं पुरुषं-वेँद यथा मा वो मृत्युः परिव्यथा इति ॥6॥

तान्‌ होवाचैतावदेवाहमेतत्‌ परं ब्रह्म वेद। नातः परमस्तीति ॥7॥

ते तमर्चयंतस्त्वं हि नः पिता योऽस्माकमविध्यायाः परं पारं तारयसीति।
नमः परमृषिभ्यो नमः परमृषिभ्यः ॥8॥

prashnopanishad question 6 in marathi

Copy
Give Feedback