Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

मुरारि पंच रत्न स्तोत्रम्

Murari Pancha Ratna Stotram in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

murari pancha ratna stotram in marathi

यत्सेवनेन पितृमातृसहोदराणां
चित्तं न मोहमहिमा मलिनं करोति ।
इत्थं समीक्ष्य तव भक्तजनान्मुरारे
मूकोऽस्मि तेऽंघ्रिकमलं तदतीव धन्यम् ॥ 1 ॥

ये ये विलग्नमनसः सुखमाप्तुकामाः
ते ते भवंति जगदुद्भवमोहशून्याः ।
दृष्ट्वा विनष्टधनधान्यगृहान्मुरारे
मूकोऽस्मि तेऽंघ्रिकमलं तदतीव धन्यम् ॥ 2 ॥

वस्त्राणि दिग्वलयमावसतिः श्मशाने
पात्रं कपालमपि मुंडविभूषणानि ।
रुद्रे प्रसादमचलं तव वीक्ष्य शौरे
मूकोऽस्मि तेऽंघ्रिकमलं तदतीव धन्यम् ॥ 3 ॥

यत्कीर्तिगायनपरस्य विधातृसूनोः
कौपीनमैणमजिनं विपुलां विभूतिम् ।
स्वस्यार्थ दिग्भ्रमणमीक्ष्य तु सार्वकालं
मूकोऽस्मि तेऽंघ्रिकमलं तदतीव धन्यम् ॥ 4 ॥

यद्वीक्षणे धृतधियामशनं फलादि
वासोऽपि निर्जिनवने गिरिकंदरासु ।
वासांसि वल्कलमयानि विलोक्य चैवं
मूकोऽस्मि तेऽंघ्रिकमलं तदतीव धन्यम् ॥ 5 ॥

स्तोत्रं पादांबुजस्यैतच्छ्रीशस्य विजितेंद्रियः ।
पठित्वा तत्पदं याति श्लोकार्थज्ञस्तु यो नरः ॥ 6 ॥

इति मुरारि पंचरत्नम् ।

murari pancha ratna stotram in marathi

Copy
Give Feedback