Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

अष्टावक्र गीता षोडशोऽध्यायः

Ashtavakra Gita Chapter 16 in marathi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

ashtavakra gita chapter 16 in marathi

अष्टावक्र उवाच ॥

आचक्ष्व श‍ऋणु वा तात नानाशास्त्राण्यनेकशः ।
तथापि न तव स्वास्थ्यं सर्वविस्मरणाद् ऋते ॥ 16-1॥

भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते ।
चित्तं निरस्तसर्वाशमत्यर्थं रोचयिष्यति ॥ 16-2॥

आयासात्सकलो दुःखी नैनं जानाति कश्चन ।
अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम् ॥ 16-3॥

व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि ।
तस्यालस्य धुरीणस्य सुखं नान्यस्य कस्यचित् ॥ 16-4॥

इदं कृतमिदं नेति द्वंद्वैर्मुक्तं यदा मनः ।
धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत् ॥ 16-5॥

विरक्तो विषयद्वेष्टा रागी विषयलोलुपः ।
ग्रहमोक्षविहीनस्तु न विरक्तो न रागवान् ॥ 16-6॥

हेयोपादेयता तावत्संसारविटपांकुरः ।
स्पृहा जीवति यावद् वै निर्विचारदशास्पदम् ॥ 16-7॥

प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि ।
निर्द्वंद्वो बालवद् धीमान् एवमेव व्यवस्थितः ॥ 16-8॥

हातुमिच्छति संसारं रागी दुःखजिहासया ।
वीतरागो हि निर्दुःखस्तस्मिन्नपि न खिद्यति ॥ 16-9॥

यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा ।
न च ज्ञानी न वा योगी केवलं दुःखभागसौ ॥ 16-10॥

हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा ।
तथापि न तव स्वाथ्यं सर्वविस्मरणादृते ॥ 16-11॥

ashtavakra gita chapter 16 in marathi

Copy
Give Feedback