Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

विदुर नीति – उद्योग पर्वम्, अध्यायः 38

Vidura Neethi Udyoga Parvam Chapter 38 in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

vidura neethi udyoga parvam chapter 38 in konkani

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
विदुरवाक्ये अष्टत्रिंशोऽध्यायः ॥

विदुर उवाच ।

ऊर्ध्वं प्राणा ह्युत्क्रामंति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्पतिपद्यते ॥ 1॥

पीठं दत्त्वा साधवेऽभ्यागताय
आनीयापः परिनिर्णिज्य पादौ ।
सुखं पृष्ट्वा प्रतिवेद्यात्म संस्थं
ततो दद्यादन्नमवेक्ष्य धीरः ॥ 2॥

यस्योदकं मधुपर्कं च गां च
न मंत्रवित्प्रतिगृह्णाति गेहे ।
लोभाद्भयादर्थकार्पण्यतो वा
तस्यानर्थं जीवितमाहुरार्याः ॥ 3॥

चिकित्सकः शक्य कर्तावकीर्णी
स्तेनः क्रूरो मद्यपो भ्रूणहा च ।
सेनाजीवी श्रुतिविक्रायकश् च
भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥ 4॥

अविक्रेयं लवणं पक्वमन्नं दधि
क्षीरं मधु तैलं घृतं च ।
तिला मांसं मूलफलानि शाकं
रक्तं वासः सर्वगंधा गुडश् च ॥ 5॥

अरोषणो यः समलोष्ट कांचनः
प्रहीण शोको गतसंधि विग्रहः ।
निंदा प्रशंसोपरतः प्रियाप्रिये
चरन्नुदासीनवदेष भिक्षुकः ॥ 6॥

नीवार मूलेंगुद शाकवृत्तिः
सुसंयतात्माग्निकार्येष्वचोद्यः ।
वने वसन्नतिथिष्वप्रमत्तो
धुरंधरः पुण्यकृदेष तापसः ॥ 7॥

अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥ 8॥

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् ।
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृंतति ॥ 9॥

अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः ।
श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥ 10॥

पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः ।
स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥ 11॥

पितुरंतःपुरं दद्यान्मातुर्दद्यान्महानसम् ।
गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् ।
भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् ॥ 12॥

अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ 13॥

नित्यं संतः कुले जाताः पावकोपम तेजसः ।
क्षमावंतो निराकाराः काष्ठेऽग्निरिव शेरते ॥ 14॥

यस्य मंत्रं न जानंति बाह्याश्चाभ्यंतराश् च ये ।
स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ॥ 15॥

करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत् ।
धर्मकामार्थ कार्याणि तथा मंत्रो न भिद्यते ॥ 16॥

गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः ।
अरण्ये निःशलाके वा तत्र मंत्रो विधीयते ॥ 17॥

नासुहृत्परमं मंत्रं भारतार्हति वेदितुम् ।
अपंडितो वापि सुहृत्पंडितो वाप्यनात्मवान् ।
अमात्ये ह्यर्थलिप्सा च मंत्ररक्षणमेव च ॥ 18॥

कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः ।
गूढमंत्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ॥ 19॥

अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति ।
स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि ॥ 20॥

कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम् ।
तेषामेवाननुष्ठानं पश्चात्तापकरं महत् ॥ 21॥

स्थानवृद्ध क्षयज्ञस्य षाड्गुण्य विदितात्मनः ।
अनवज्ञात शीलस्य स्वाधीना पृथिवी नृप ॥ 22॥

अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः ।
आत्मप्रत्यय कोशस्य वसुधेयं वसुंधरा ॥ 23॥

नाममात्रेण तुष्येत छत्रेण च महीपतिः ।
भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ॥ 24॥

ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा ।
अमात्यं नृपतिर्वेद राजा राजानमेव च ॥ 25॥

न शत्रुरंकमापन्नो मोक्तव्यो वध्यतां गतः ।
अहताद्धि भयं तस्माज्जायते नचिरादिव ॥ 26॥

दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च ।
नियंतव्यः सदा क्रोधो वृद्धबालातुरेषु च ॥ 27॥

निरर्थं कलहं प्राज्ञो वर्जयेन्मूढ सेवितम् ।
कीर्तिं च लभते लोके न चानर्थेन युज्यते ॥ 28॥

प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः ।
न तं भर्तारमिच्छंति षंढं पतिमिव स्त्रियः ॥ 29॥

न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये ।
लोकपर्याय वृत्तांतं प्राज्ञो जानाति नेतरः ॥ 30॥

विद्या शीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत ।
धनाभिजन वृद्धांश्च नित्यं मूढोऽवमन्यते ॥ 31॥

अनार्य वृत्तमप्राज्ञमसूयकमधार्मिकम् ।
अनर्थाः क्षिप्रमायांति वाग्दुष्टं क्रोधनं तथा ॥ 32॥

अविसंवादनं दानं समयस्याव्यतिक्रमः ।
आवर्तयंति भूतानि सम्यक्प्रणिहिता च वाक् ॥ 33॥

अविसंवादको दक्षः कृतज्ञो मतिमानृजुः ।
अपि संक्षीण कोशोऽपि लभते परिवारणम् ॥ 34॥

धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा ।
मित्राणां चानभिद्रोहः सतैताः समिधः श्रियः ॥ 35॥

असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः ।
तादृङ्नराधमो लोके वर्जनीयो नराधिप ॥ 36॥

न स रात्रौ सुखं शेते स सर्प इव वेश्मनि ।
यः कोपयति निर्दोषं स दोषोऽभ्यंतरं जनम् ॥ 37॥

येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत ।
सदा प्रसादनं तेषां देवतानामिवाचरेत् ॥ 38॥

येऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च ।
ये चानार्य समासक्ताः सर्वे ते संशयं गताः ॥ 39॥

यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च ।
मज्जंति तेऽवशा देशा नद्यामश्मप्लवा इव ॥ 40॥

प्रयोजनेषु ये सक्ता न विशेषेषु भारत ।
तानहं पंडितान्मन्ये विशेषा हि प्रसंगिनः ॥ 41॥

यं प्रशंसंति कितवा यं प्रशंसंति चारणाः ।
यं प्रशंसंति बंधक्यो न स जीवति मानवः ॥ 42॥

हित्वा तान्परमेष्वासान्पांडवानमितौजसः ।
आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ॥ 43॥

तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव ।
ऐश्वर्यमदसम्मूढं बलिं लोकत्रयादिव ॥ 44॥

॥ इति श्रीमहाभारते उद्योगपर्वणि प्रजागरपर्वणि
विदुरवाक्ये अष्टत्रिंशोऽध्यायः ॥ 38॥

vidura neethi udyoga parvam chapter 38 in konkani

Copy
Give Feedback