Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

सूर्य मंडल स्तोत्रम्

Surya Mandala Stotram in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

surya mandala stotram in konkani

नमोऽस्तु सूर्याय सहस्ररश्मये
सहस्रशाखान्वित संभवात्मने ।
सहस्रयोगोद्भव भावभागिने
सहस्रसंख्यायुधधारिणे नमः ॥ 1 ॥

यन्मंडलं दीप्तिकरं विशालं
रत्नप्रभं तीव्रमनादिरूपम् ।
दारिद्र्यदुःखक्षयकारणं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 2 ॥

यन्मंडलं देवगणैः सुपूजितं
विप्रैः स्तुतं भावनमुक्तिकोविदम् ।
तं देवदेवं प्रणमामि सूर्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 3 ॥

यन्मंडलं ज्ञानघनंत्वगम्यं
त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् ।
समस्ततेजोमयदिव्यरूपं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 4 ॥

यन्मंडलं गूढमतिप्रबोधं
धर्मस्य वृद्धिं कुरुते जनानाम् ।
यत्सर्वपापक्षयकारणं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 5 ॥

यन्मंडलं व्याधिविनाशदक्षं
यदृग्यजुः सामसु संप्रगीतम् ।
प्रकाशितं येन च भूर्भुवः स्वः
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 6 ॥

यन्मंडलं वेदविदो वदंति
गायंति यच्चारणसिद्धसंघाः ।
यद्योगिनो योगजुषां च संघाः
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 7 ॥

यन्मंडलं सर्वजनैश्च पूजितं
ज्योतिश्च कुर्यादिह मर्त्यलोके ।
यत्कालकालाद्यमनादिरूपं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 8 ॥

यन्मंडलं विष्णुचतुर्मुखाख्यं
यदक्षरं पापहरं जनानाम् ।
यत्कालकल्पक्षयकारणं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 9 ॥

यन्मंडलं विश्वसृजं प्रसिद्धं
उत्पत्तिरक्षप्रलय प्रगल्भम् ।
यस्मिन् जगत्संहरतेऽखिलं च
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 10 ॥

यन्मंडलं सर्वगतस्य विष्णोः
आत्मा परं‍धाम विशुद्धतत्त्वम् ।
सूक्ष्मांतरैर्योगपथानुगम्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 11 ॥

यन्मंडलं वेदविदोपगीतं
यद्योगिनां योग पथानुगम्यम् ।
तत्सर्व वेद्यं प्रणमामि सूर्यं
पुनातु मां तत्सवितुर्वरेण्यम् ॥ 12 ॥

सूर्यमंडलसु स्तोत्रं यः पठेत्सततं नरः ।
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥

इति श्री भविष्योत्तरपुराणे श्री कृष्णार्जुन संवादे सूर्यमंडल स्तोत्रम् ।

surya mandala stotram in konkani

Copy
Give Feedback