Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री सीताराम स्तोत्रम्

Sri Sita Rama Stotram in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri sita rama stotram in konkani

अयोध्यापुरनेतारं मिथिलापुरनायिकाम् ।
राघवाणामलंकारं वैदेहानामलंक्रियाम् ॥ 1 ॥

रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।
सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥ 2 ॥

पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः ।
वशिष्ठानुमताचारं शतानंदमतानुगाम् ॥ 3 ॥

कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् ।
पुंडरीकविशालाक्षं स्फुरदिंदीवरेक्षणाम् ॥ 4 ॥

चंद्रकांताननांभोजं चंद्रबिंबोपमाननाम् ।
मत्तमातंगगमनं मत्तहंसवधूगताम् ॥ 5 ॥

चंदनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम् ।
चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम् ॥ 6 ॥

शरणागतगोप्तारं प्रणिपादप्रसादिकाम् ।
कालमेघनिभं रामं कार्तस्वरसमप्रभाम् ॥ 7 ॥

दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् ।
अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ ॥ 8 ॥

अन्योन्यसदृशाकारौ त्रैलोक्यगृहदंपती।
इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥ 9 ॥

अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः ।
तस्य तौ तनुतां पुण्याः संपदः सकलार्थदाः ॥ 10 ॥

एवं श्रीरामचंद्रस्य जानक्याश्च विशेषतः ।
कृतं हनूमता पुण्यं स्तोत्रं सद्यो विमुक्तिदम् ।
यः पठेत्प्रातरुत्थाय सर्वान् कामानवाप्नुयात् ॥ 11 ॥

इति हनूमत्कृत-सीताराम स्तोत्रं संपूर्णम् ॥

sri sita rama stotram in konkani

Copy
Give Feedback