Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री सिद्धलक्ष्मी स्तोत्रम्

Sri Siddha Lakshmi Stotram in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri siddha lakshmi stotram in konkani

अस्य श्रीसिद्धलक्ष्मीस्तोत्रमंत्रस्य हिरण्यगर्भ ऋषिः अनुष्टुप् छंदः, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकं मम सर्वक्लेशपीडापरिहारार्थं सर्वदुःखदारिद्र्यनाशनार्थं सर्वकार्यसिद्ध्यर्थं श्रीसिद्धिलक्ष्मीस्तोत्र पाठे विनियोगः ॥

ऋष्यादिन्यासः
ॐ हिरण्यगर्भ ऋषये नमः शिरसि ।
अनुष्टुप्छंदसे नमो मुखे ।
श्रीमहाकालीमहालक्ष्मीमहासरस्वतीदेवताभ्यो नमो हृदिः ।
श्रीं बीजाय नमो गुह्ये ।
ह्रीं शक्तये नमः पादयोः ।
क्लीं कीलकाय नमो नाभौ ।
विनियोगाय नमः सर्वांगेषु ॥

करन्यासः
ॐ श्रीं सिद्धलक्ष्म्यै अंगुष्ठाभ्यां नमः ।
ॐ ह्रीं विष्णुतेजसे तर्जनीभ्यां नमः ।
ॐ क्लीं अमृतानंदायै मध्यमाभ्यां नमः ।
ॐ श्रीं दैत्यमालिन्यै अनामिकाभ्यां नमः ।
ॐ ह्रीं तेजः प्रकाशिन्यै कनिष्ठिकाभ्यां नमः ।
ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै करतल करपृष्ठाभ्यां नमः ॥

अंगन्यासः
ॐ श्रीं सिद्धलक्ष्म्यै हृदयाय नमः ।
ॐ ह्रीं विष्णुतेजसे शिरसे स्वाहा ।
ॐ क्लीं अमृतानंदायै शिखायै वषट् ।
ॐ श्रीं दैत्यमालिन्यै कवचाय हुम् ।
ॐ ह्रीं तेजः प्रकाशिन्यै नेत्रत्रयाय वौषट् ।
ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै अस्त्राय फट् ॥
ॐ श्रीं ह्रीं क्लीं श्रीं सिद्धलक्ष्म्यै नमः इति दिग्बंधः ॥

अथ ध्यानम्
ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखीम् ।
त्रिनेत्रां खड्गत्रिशूलपद्मचक्रगदाधराम् ॥ 1 ॥

पीतांबरधरां देवीं नानालंकारभूषिताम् ।
तेजःपुंजधरीं श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ 2 ॥

अथ स्तोत्रम्
ॐकारं लक्ष्मीरूपं तु विष्णुं वाग्भवमव्ययम् ।
विष्णुमानंदमव्यक्तं ह्रींकारं बीजरूपिणीम् ॥ 3 ॥

क्लीं अमृतानंदिनीं भद्रां सत्यानंददायिनीम् ।
श्रीं दैत्यशमनीं शक्तिं मालिनीं शत्रुमर्दिनीम् ॥ 4 ॥

तेजः प्रकाशिनीं देवीं वरदां शुभकारिणीम् ।
ब्राह्मीं च वैष्णवीं रौद्रीं कालिकारूपशोभिनीम् ॥ 5 ॥

अकारे लक्ष्मीरूपं तु उकारे विष्णुमव्ययम् ।
मकारः पुरुषोऽव्यक्तो देवी प्रणव उच्यते ॥ 6 ॥

सूर्यकोटिप्रतीकाशं चंद्रकोटिसमप्रभम् ।
तन्मध्ये निकरं सूक्ष्मं ब्रह्मरुपं व्यवस्थितम् ॥ 7 ॥

ॐकारं परमानंदं सदैव सुरसुंदरीम् ।
सिद्धलक्ष्मी मोक्षलक्ष्मी आद्यलक्ष्मी नमोऽस्तु ते ॥ 8 ॥

श्रींकारं परमं सिद्धं सर्वबुद्धिप्रदायकम् ।
सौभाग्याऽमृता कमला सत्यलक्ष्मी नमोऽस्तु ते ॥ 9 ॥

ह्रींकारं परमं शुद्धं परमैश्वर्यदायकम् ।
कमला धनदा लक्ष्मी भोगलक्ष्मी नमोऽस्तु ते ॥ 10 ॥

क्लींकारं कामरूपिण्यं कामनापरिपूर्तिदम् ।
चपला चंचला लक्ष्मी कात्यायनी नमोऽस्तु ते ॥ 11 ॥

श्रींकारं सिद्धिरूपिण्यं सर्वसिद्धिप्रदायकम् ।
पद्माननां जगन्मात्रे अष्टलक्ष्मीं नमोऽस्तु ते ॥ 12 ॥

सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंबके गौरि नारायणी नमोऽस्तु ते ॥ 13 ॥

प्रथमं त्र्यंबका गौरी द्वितीयं वैष्णवी तथा ।
तृतीयं कमला प्रोक्ता चतुर्थं सुंदरी तथा ॥ 14 ॥

पंचमं विष्णुशक्तिश्च षष्ठं कात्यायनी तथा ।
वाराही सप्तमं चैव ह्यष्टमं हरिवल्लभा ॥ 15 ॥

नवमं खड्गिनी प्रोक्ता दशमं चैव देविका ।
एकादशं सिद्धलक्ष्मीर्द्वादशं हंसवाहिनी ॥ 16 ॥

उत्तरन्यासः
ॐ श्रीं सिद्धलक्ष्म्यै हृदयाय नमः ।
ॐ ह्रीं विष्णुतेजसे शिरसे स्वाहा ।
ॐ क्लीं अमृतानंदायै शिखायै वषट् ।
ॐ श्रीं दैत्यमालिन्यै कवचाय हुम् ।
ॐ ह्रीं तेजः प्रकाशिन्यै नेत्रत्रयाय वौषट् ।
ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै अस्त्राय फट् ॥
ॐ श्रीं ह्रीं क्लीं श्रीं सिद्धलक्ष्म्यै नमः इति दिग्विमोकः ॥

अथ फलशृतिः
एतत् स्तोत्रवरं देव्या ये पठंति सदा नराः ।
सर्वापद्भ्यो विमुच्यंते नात्र कार्या विचारणा ॥ 17 ॥

एकमासं द्विमासं च त्रिमासं च चतुस्थथा ।
पंचमासं च षण्मासं त्रिकालं यः सदा पठेत् ॥ 18 ॥

ब्राह्मणः क्लेशितो दुःखी दारिद्र्यभयपीडितः ।
जन्मांतर सहस्रोत्थैर्मुच्यते सर्वकिल्बषैः ॥ 19 ॥

दरिद्रो लभते लक्ष्मीमपुत्रः पुत्रवान् भवेत् ।
धन्यो यशस्वी शत्रुघ्नो वह्निचौरभयेषु च ॥ 20 ॥

शाकिनी भूत वेताल सर्प व्याघ्र निपातने ।
राजद्वारे सभास्थाने कारागृहनिबंधने ॥ 21 ॥

ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारकम् ।
स्तुवंतु ब्राह्मणाः नित्यं दारिद्र्यं न च बाधते ॥ 22 ॥

सर्वपापहरा लक्ष्मीः सर्वसिद्धिप्रदायिनीम् ।
साधकाः लभते सर्वं पठेत् स्तोत्रं निरंतरम् ॥ 23 ॥

प्रार्थना
या श्रीः पद्मवने कदंबशिखरे राजगृहे कुंजरे
श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते ।
शंखे दैवकुले नरेंद्रभवने गंगातटे गोकुले
सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात् सदा निश्चला ॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गंभीरावर्तनाभिः स्तनभरनमिता शुद्धवस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेंद्रैर्मणिगणखचितैः स्नापिता हेमकुंभैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमांगल्ययुक्ता ॥

इति श्रीब्रह्मपुराणे ईश्वरविष्णुसंवादे श्री सिद्धलक्ष्मी स्तोत्रम् ॥

sri siddha lakshmi stotram in konkani

Copy
Give Feedback