Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री कामाख्या स्तोत्रं

Sri Kamakhya Stotram in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri kamakhya stotram in konkani

जय कामेशि चामुंडे जय भूतापहारिणि ।
जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ 1 ॥

विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने ।
भीमरूपे शिवे विद्ये कामेश्वरि नमोऽस्तु ते ॥ 2 ॥

मालाजये जये जंभे भूताक्षि क्षुभितेऽक्षये ।
महामाये महेशानि कामेश्वरि नमोऽस्तु ते ॥ 3 ॥

भीमाक्षि भीषणे देवि सर्वभूतक्षयंकरि ।
कालि च विकरालि च कामेश्वरि नमोऽस्तु ते ॥ 3 ॥

कालि करालविक्रांते कामेश्वरि हरप्रिये ।
सर्वशास्त्रसारभूते कामेश्वरि नमोऽस्तु ते ॥ 4 ॥

कामरूपप्रदीपे च नीलकूटनिवासिनि ।
निशुंभशुंभमथनि कामेश्वरि नमोऽस्तु ते ॥ 5 ॥

कामाख्ये कामरूपस्थे कामेश्वरि हरिप्रिये ।
कामनां देहि मे नित्यं कामेश्वरि नमोऽस्तु ते ॥ 6 ॥

वपानाढ्यमहावक्त्रे तथा त्रिभुवनेश्वरि ।
महिषासुरवधे देवि कामेश्वरि नमोऽस्तु ते ॥ 7 ॥

छागतुष्टे महाभीमे कामाख्ये सुरवंदिते ।
जय कामप्रदे तुष्टे कामेश्वरि नमोऽस्तु ते ॥ 8 ॥

भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ।
अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः ॥ 9 ॥

संवत्सरेण लभते राज्यं निष्कंटकं पुनः ।
य इदं शृणुयाद्भक्त्या तव देवि समुद्भवम् ।
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ॥ 10 ॥

श्रीकामरूपेश्वरि भास्करप्रभेप्रकाशितांभोजनिभायतानने ।
सुरारिरक्षःस्तुतिपातनोत्सुकेत्रयीमये देवनुते नमामि ॥ 11 ॥

सितासिते रक्तपिशंगविग्रहेरूपाणि यस्याः प्रतिभांति तानि ।
विकाररूपा च विकल्पितानिशुभाशुभानामपि तां नमामि ॥ 12 ॥

कामरूपसमुद्भूते कामपीठावतंसके ।
विश्वाधारे महामाये कामेश्वरि नमोऽस्तु ते ॥ 13 ॥

अव्यक्तविग्रहे शांते संतते कामरूपिणि ।
कालगम्ये परे शांते कामेश्वरि नमोऽस्तु ते ॥ 14 ॥

या सुषुम्नांतरालस्था चिंत्यते ज्योतिरूपिणी ।
प्रणतोऽस्मि परां वीरां कामेश्वरि नमोऽस्तु ते ॥ 15 ॥

दंष्ट्राकरालवदने मुंडमालोपशोभिते ।
सर्वतः सर्वगे देवि कामेश्वरि नमोऽस्तु ते ॥ 16 ॥

चामुंडे च महाकालि कालि कपालहारिणी ।
पाशहस्ते दंडहस्ते कामेश्वरि नमोऽस्तु ते ॥ 17 ॥

चामुंडे कुलमालास्ये तीक्ष्णदंष्ट्रे महाबले ।
शवयानस्थिते देवि कामेश्वरि नमोऽस्तु ते ॥ 18 ॥

इति श्री कामाख्या स्तोत्रम् ।

sri kamakhya stotram in konkani

Copy
Give Feedback