Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

श्री गुरु स्तोत्रम् (गुरु वंदनम्)

Sri Guru Stotram Guru Vandanam in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

sri guru stotram guru vandanam in konkani

अखंडमंडलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 1 ॥

अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ 2 ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुरेव परंब्रह्म तस्मै श्रीगुरवे नमः ॥ 3 ॥

स्थावरं जंगमं व्याप्तं यत्किंचित्सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 4 ॥

चिन्मयं व्यापियत्सर्वं त्रैलोक्यं सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 5 ॥

त्सर्वश्रुतिशिरोरत्नविराजित पदांबुजः ।
वेदांतांबुजसूर्योयः तस्मै श्रीगुरवे नमः ॥ 6 ॥

चैतन्यः शाश्वतःशांतो व्योमातीतो निरंजनः ।
बिंदुनाद कलातीतः तस्मै श्रीगुरवे नमः ॥ 7 ॥

ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥ 8 ॥

अनेकजन्मसंप्राप्त कर्मबंधविदाहिने ।
आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॥ 9 ॥

शोषणं भवसिंधोश्च ज्ञापणं सारसंपदः ।
गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ 10 ॥

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
तत्त्वज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः ॥ 11 ॥

मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ 12 ॥

गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥ 13 ॥

त्वमेव माता च पिता त्वमेव
त्वमेव बंधुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देव देव ॥ 14 ॥

sri guru stotram guru vandanam in konkani

Copy
Give Feedback