Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

शिव पादादि केशांत वर्णन स्तोत्रं

Shiva Padadi Keshanta Varnana Stotram in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

shiva padadi keshanta varnana stotram in konkani

कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुंज-
-क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः ।
तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकी
कैलासः शर्वनिर्वृत्यभिजनकपदः सर्वदा पर्वतेंद्रः ॥ 1 ॥

यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं
यस्येषुः शार्‍ंगधन्वा समजनि जगतां रक्षणे जागरूकः ।
मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं
सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥ 2 ॥

आतंकावेगहारी सकलदिविषदामंघ्रिपद्माश्रयाणां
मातंगाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः ।
क्रूरः सूरायुतानामपि च परिभवं स्वीयभासा वितन्व-
-न्घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥ 3 ॥

कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां
काले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः ।
पायान्नः पावकार्चिःप्रसरसखमुखः पापहंता नितांतं
शूलः श्रीपादसेवाभजनरसजुषां पालनैकांतशीलः ॥ 4 ॥

देवस्यांकाश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार-
-प्रस्तारानत्युदारान्पिपठिषुरिव यो नित्यमत्यादरेण ।
आधत्ते भंगितुंगैरनिशमवयवैरंतरंगं समोदं
सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरंगः कुरंगः ॥ 5 ॥

कंठप्रांतावसज्जत्कनकमयमहाघंटिकाघोरघोषैः
कंठारावैरकुंठैरपि भरितजगच्चक्रवालांतरालः ।
चंडः प्रोद्दंडशृंगः ककुदकबलितोत्तुंगकैलासशृंगः
कंठेकालस्य वाहः शमयतु शमलं शाश्वतः शाक्वरेंद्रः ॥ 6 ॥

निर्यद्दानांबुधारापरिमलतरलीभूतरोलंबपाली-
-झंकारैः शंकराद्रेः शिखरशतदरीः पूरयन्भूरिघोषैः ।
शार्वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता
शर्वाण्याः पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥ 7 ॥

यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या-
-द्यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजंते ।
भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौंचशैलः
संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥ 8 ॥

आरूढः प्रौढवेगप्रविजितपवनं तुंगतुंगं तुरंगं
चेलं नीलं वसानः करतलविलसत्कांडकोदंडदंडः ।
रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता
कुर्वन्नाखेटलीलां परिलसतु मनःकानने मामकीने ॥ 9 ॥

अंभोजाभ्यां च रंभारथचरणलताद्वंद्वकुंभींद्रकुंभै-
-र्बिंबेनेंदोश्च कंबोरुपरि विलसता विद्रुमेणोत्पलाभ्याम् ।
अंभोदेनापि संभावितमुपजनिताडंबरं शंबरारेः
शंभोः संभोगयोग्यं किमपि धनमिदं संभवेत्संपदे नः ॥ 10 ॥

वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासा-
-न्वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् ।
एणीनेत्रांतभंगीनिरसननिपुणापांगकोणानुपासे
शोणान्प्राणानुदूढप्रतिनवसुषमाकंदलानिंदुमौलेः ॥ 11 ॥

नृत्तारंभेषु हस्ताहतमुरजधिमिद्धिंकृतैरत्युदारै-
-श्चित्तानंदं विधत्ते सदसि भगवतः संततं यः स नंदी ।
चंडीशाद्यास्तथान्ये चतुरगुणगणप्रीणितस्वामिसत्का-
-रोत्कर्षोद्यत्प्रसादाः प्रमथपरिबृढाः पांतु संतोषिणो नः ॥ 12 ॥

मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं
प्रत्युप्तानर्घरत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनाम् ।
उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं
हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमौलेः ॥ 13 ॥

स्तंभैर्जंभारिरत्नप्रवरविरचितैः संभृतोपांतभागं
शुंभत्सोपानमार्गं शुचिमणिनिचयैर्गुंभितानल्पशिल्पम् ।
कुंभैः संपूर्णशोभं शिरसि सुघटितैः शातकुंभैरपंकैः
शंभोः संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदो नः ॥ 14 ॥

न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो
हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा ॥
वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीः
पीठः पीडाभरं नः शमयतु शिवयोः स्वैरसंवासयोग्यः ॥ 15 ॥

आसीनस्याधिपीठं त्रिजगदधिपतेरंघ्रिपीठानुषक्तौ
पाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्मादिरेखौ ।
पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर-
-श्रेणीशोणायमानोन्नतनखदशकोद्भासमानौ समानौ ॥ 16 ॥

यन्नादो वेदवाचां निगदति निखिलं लक्षणं पक्षिकेतु-
-र्लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे ।
शंभोः संभावनीये पदकमलसमासंगतस्तुंगशोभे
मांगल्यं नः समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥ 17 ॥

अंगे शृंगारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते
शत्रोरुद्धृत्य तस्मादिषुधियुगमधो न्यस्तमग्रे किमेतत् ।
शंकामित्थं नतानाममरपरिषदामंतरंकूरयत्त-
-त्संघातं चारु जंघायुगमखिलपतेरंहसां संहरेन्नः ॥ 18 ॥

जानुद्वंद्वेन मीनध्वजनृवरसमुद्रोपमानेन साकं
राजंतौ राजरंभाकरिकरकनकस्तंभसंभावनीयौ ।
ऊरू गौरीकरांभोरुहसरससमामर्दनानंदभाजौ
चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मांतरे नः ॥ 19 ॥

आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्याणकांची-
-दाम्ना बद्देन दुग्धद्युतिनिचयमुषा चीनपट्टांबरेण ।
संवीते शैलकन्यासुचरितपरिपाकायमाणे नितंबे
नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः ॥ 20 ॥

संध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढं
व्यानद्धः स्निग्धमुग्धः सरसमुदरबंधेन वीतोपमेन ।
उद्दीप्तैः स्वप्रकाशैरुपचितमहिमा मन्मथारेरुदारो
मध्यो मिथ्यार्थसध्र्यङ्मम दिशतु सदा संगतिं मंगलानाम् ॥ 21 ॥

नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता-
-दुद्गच्छंती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयांति ।
श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं
सा मा सोमार्धमौलेः सुखयतु सततं रोमवल्लीमतल्ली ॥ 22 ॥

आश्लेषेष्वद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपंक-
-व्यासंगादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यम् ।
दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं
वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥ 23 ॥

वामांके विस्फुरंत्याः करतलविलसच्चारुरक्तोत्पलायाः
कांताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम् ।
अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृतानिंदुमौले-
-र्बाहूनाबद्धहेमांगदमणिकटकानंतरालोकयामः ॥ 24 ॥

संभ्रांतायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा-
-त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्याम् ।
मध्ये त्रैशंकवीयामनुभवति दशां यत्र हालाहलोष्मा
सोऽयं सर्वापदां नः शमयतु निचयं नीलकंठस्य कंठः ॥ 25 ॥

हृद्यैरद्रींद्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री-
-रुद्द्योतंत्या नितांतं धवलधवलया मिश्रितो दंतकांत्या ।
मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानः
सद्योजातस्य दद्यादधरमणिरसौ संपदां संचयं नः ॥ 26 ॥

कर्णालंकारनानामणिनिकररुचां संचयैरंचितायां
वर्ण्यायां स्वर्णपद्मोदरपरिविलसत्कर्णिकासंनिभायाम् ।
पद्धत्यां प्राणवायोः प्रणतजनहृदंभोजवासस्य शंभो-
-र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ॥ 27 ॥

अत्यंतं भासमाने रुचिरतररुचां संगमात्सन्मणीना-
-मुद्यच्चंडांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने ।
भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलंबे
भक्तालीभालसज्जज्जनिमरणलिपेः कुंडले कुंडले ते ॥ 28 ॥

याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां
येषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं ताम् ।
रुद्राणीवक्त्रपंकेरुहसततविहारोत्सुकेंदिंदिरेभ्य-
-स्तेभ्यस्त्रिभ्यः प्रणामांजलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥ 29 ॥

वामं वामांकगाया वदनसरसिजे व्यावलद्वल्लभाया
व्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् ।
भूयो भूयोपि मोदान्निपतदतिदयाशीतलं चूतबाणे
दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥ 30 ॥

यस्मिन्नर्धेंदुमुग्धद्युतिनिचयतिरस्कारनिस्तंद्रकांतौ
काश्मीरक्षोदसंकल्पतमिव रुचिरं चित्रकं भाति नेत्रम् ।
तस्मिन्नुल्लीलचिल्लीनटवरतरुणीलास्यरंगायमाणे
कालारेः फालदेशे विहरतु हृदयं वीतचिंतांतरं नः ॥ 31 ॥

स्वामिन्गंगामिवांगीकुरु तव शिरसा मामपीत्यर्थयंतीं
धन्यां कन्यां खरांशोः शिरसि वहति किं न्वेष कारुण्यशाली ।
इत्थं शंकां जनानां जनयदतिघनं कैशिकं कालमेघ-
-च्छायं भूयादुदारं त्रिपुरविजयिनः श्रेयसे भूयसे नः ॥ 32 ॥

शृंगाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः
सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृंगम् ।
तुंगं माणिक्यकांत्या परिहसितसुरावासशैलेंद्रशृंगं
संघं नः संकटानां विघटयतु सदा कांकटीकं किरीटम् ॥ 33 ॥

वक्राकारः कलंकी जडतनुरहमप्यंघ्रिसेवानुभावा-
-दुत्तंसत्वं प्रयातः सुलभतरघृणास्यंदिनश्चंद्रमौलेः ।
तत्सेवंतां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणं
वंदे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ॥ 34 ॥

कांत्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज-
-न्वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजाम् ।
सानंदं नंदिदोष्णा मणिकटकवता वाह्यमानः पुरारेः
श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥ 35 ॥

दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां
रुद्राणीसत्सखीनां मदतरलकटाक्षांचलैरंचितानाम् ।
उद्वेल्लद्बाहुवल्लीविलसनसमये चामरांदोलनीना-
-मुद्भूतः कंकणालीवलयकलकलो वारयेदापदो नः ॥ 36 ॥

स्वर्गौकःसुंदरीणां सुललितवपुषां स्वामिसेवापराणां
वल्गद्भूषाणि वक्रांबुजपरिविगलन्मुग्धगीतामृतानि ।
नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक-
-प्रत्युद्यत्प्रीतिमाद्यत्प्रमथनटनटीदत्तसंभावनानि ॥ 37 ॥

स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यंजयन्मंजुवीणा-
-स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् ।
नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं
गानं वीणामहर्षेः कलमतिललितं कर्णपूरयतां नः ॥ 38 ॥

चेतो जातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनां
पाणिद्वंद्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूला ।
स्वीयारावेण पाथोधररवपटुना नादयंती मयूरीं
मायूरी मंदभावं मणिमुरजभवा मार्जना मार्जयेन्नः ॥ 39 ॥

देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः
साध्येभ्यश्चारणेभ्यो मनुजपशुपतज्जातिकीटादिकेभ्यः ।
श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये संति तेभ्यः
सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥ 40 ॥

ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः
किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात् ।
संपज्जातं समग्रं सदसि बहुमतिं सर्वलोकप्रियत्वं
संप्राप्यायुःशतांते पदमयति परब्रह्मणो मन्मथारेः ॥ 41 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्री शिव पादादिकेशांतवर्णन स्तोत्रम् ॥

shiva padadi keshanta varnana stotram in konkani

Copy
Give Feedback