Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

ऋण विमोचन नृसिंह स्तोत्रम्

Runa Vimochana Narasimha Stotram in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

runa vimochana narasimha stotram in konkani

ध्यानम् –
वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि ।
यस्यास्ते हृदये संवित्तं नृसिंहमहं भजे ॥

अथ स्तोत्रम् –
देवताकार्यसिद्ध्यर्थं सभास्तंभसमुद्भवम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 1 ॥

लक्ष्म्यालिंगित वामांकं भक्तानां वरदायकम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 2 ॥

आंत्रमालाधरं शंखचक्राब्जायुधधारिणम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 3 ॥

स्मरणात् सर्वपापघ्नं कद्रूजविषनाशनम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 4 ॥

सिंहनादेन महता दिग्विदिग्भयनाशनम् । [दिग्दंति]
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 5 ॥

प्रह्लादवरद श्रीशं दैत्येश्वरविदारणम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 6 ॥

क्रूरग्रहैः पीडितानां भक्तानामभयप्रदम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 7 ॥

वेदवेदांतयज्ञेशं ब्रह्मरुद्रादिवंदितम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 8 ॥

इत्थं यः पठते नित्यं ऋणमोचन सिद्धये । [संज्ञितम्]
अनृणो जायते शीघ्रं धनं विपुलमाप्नुयात् ॥ 9 ॥

सर्वसिद्धिप्रदं नृणां सर्वैश्वर्यप्रदायकम् ।
तस्मात् सर्वप्रयत्नेन पठेत् स्तोत्रमिदं सदा ॥ 10 ॥

इति श्रीनृसिंहपुराणे ऋणमोचन श्री नृसिंह स्तोत्रम् ।

runa vimochana narasimha stotram in konkani

Copy
Give Feedback