Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

नारायणीयं दशक 62 – इंद्रयज्ञनिरोधनं तथा गोवर्धनयागम्

Narayaniyam Dashaka 62 in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

narayaniyam dashaka 62 in konkani

कदाचिद्गोपालान् विहितमखसंभारविभवान्
निरीक्ष्य त्वं शौरे मघवमदमुद्ध्वंसितुमनाः ।
विजानन्नप्येतान् विनयमृदु नंदादिपशुपा-
नपृच्छः को वाऽयं जनक भवतामुद्यम इति ॥1॥

बभाषे नंदस्त्वां सुत ननु विधेयो मघवतो
मखो वर्षे वर्षे सुखयति स वर्षेण पृथिवीम् ।
नृणां वर्षायत्तं निखिलमुपजीव्यं महितले
विशेषादस्माकं तृणसलिलजीवा हि पशवः ॥2॥

इति श्रुत्वा वाचं पितुरयि भवानाह सरसं
धिगेतन्नो सत्यं मघवजनिता वृष्टिरिति यत् ।
अदृष्टं जीवानां सृजति खलु वृष्टिं समुचितां
महारण्ये वृक्षाः किमिव बलिमिंद्राय ददते ॥3॥

इदं तावत् सत्यं यदिह पशवो नः कुलधनं
तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः ।
सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले
ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनान् ॥4॥

भवद्वाचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपाः
द्विजेंद्रानर्चंतो बलिमददुरुच्चैः क्षितिभृते ।
व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुता-
स्त्वमादश्शैलात्मा बलिमखिलमाभीरपुरतः ॥5॥

अवोचश्चैवं तान् किमिह वितथं मे निगदितं
गिरींद्रो नन्वेष स्वबलिमुपभुंक्ते स्ववपुषा ।
अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं
समस्तानित्युक्ता जहृषुरखिला गोकुलजुषः ॥6॥

परिप्रीता याताः खलु भवदुपेता व्रजजुषो
व्रजं यावत्तावन्निजमखविभंगं निशमयन् ।
भवंतं जानन्नप्यधिकरजसाऽऽक्रांतहृदयो
न सेहे देवेंद्रस्त्वदुपरचितात्मोन्नतिरपि ॥7॥

मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं
विधत्ते चेन्नष्टस्त्रिदशसदसां कोऽपि महिमा ।
ततश्च ध्वंसिष्ये पशुपहतकस्य श्रियमिति
प्रवृत्तस्त्वां जेतुं स किल मघवा दुर्मदनिधिः ॥8॥

त्वदावासं हंतुं प्रलयजलदानंबरभुवि
प्रहिण्वन् बिभ्राण; कुलिशमयमभ्रेभगमनः ।
प्रतस्थेऽन्यैरंतर्दहनमरुदाद्यैविंहसितो
भवन्माया नैव त्रिभुवनपते मोहयति कम् ॥9॥

सुरेंद्रः क्रुद्धश्चेत् द्विजकरुणया शैलकृपयाऽ-
प्यनातंकोऽस्माकं नियत इति विश्वास्य पशुपान् ।
अहो किन्नायातो गिरिभिदिति संचिंत्य निवसन्
मरुद्गेहाधीश प्रणुद मुरवैरिन् मम गदान् ॥10॥

narayaniyam dashaka 62 in konkani

Copy
Give Feedback