Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

नंद कुमार अष्टकम्

Nanda Kumara Ashtakam in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

nanda kumara ashtakam in konkani

सुंदरगोपालं उरवनमालं नयनविशालं दुःखहरं
बृंदावनचंद्रमानंदकंदं परमानंदं धरणिधरम् ।
वल्लभघनश्यामं पूर्णकामं अत्यभिरामं प्रीतिकरं
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 1 ॥

सुंदरवारिजवदनं निर्जितमदनं आनंदसदनं मुकुटधरं
गुंजाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ।
वल्लभपटपीतं कृत उपवीतं करनवनीतं विबुधवरं
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 2 ॥

शोभितसुखमूलं यमुनाकूलं निपट अतूलं सुखदतरं
मुखमंडितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् ।
वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 3 ॥

शिरमुकुटसुदेशं कुंचितकेशं नटवरवेषं कामवरं
मायाकृतमनुजं हलधर अनुजं प्रतिहतदनुजं भारहरम् ।
वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 4 ॥

इंदीवरभासं प्रकटसरासं कुसुमविकासं वंशधरं
हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् ।
वल्लभमृदुहासं कुंजनिवासं विविधविलासं केलिकरं
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 5 ॥

अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं
मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् ।
वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरं
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 6 ॥

जलधरद्युतिअंगं ललितत्रिभंगं बहुकृतिरंगं रसिकवरं
गोकुलपरिवारं मदनाकारं कुंजविहारं गूढतरम् ।
वल्लभव्रजचंद्रं सुभगसुछंदं कृत आनंदं भ्रांतिहरं
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 7 ॥

वंदितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं
कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् ।
वल्लभदुःखहरणं निर्मलचरणं अशरणशरणं मुक्तिकरं
भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥ 8 ॥

इति श्रीमद्वल्लभाचार्यविरचितं श्रीनंदकुमाराष्टकम् ॥

nanda kumara ashtakam in konkani

Copy
Give Feedback