Hanuman Kavacham in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.
hanuman kavacham in konkani
अस्य श्री हनुमत् कवचस्तोत्रमहामंत्रस्य वसिष्ठ ऋषिः अनुष्टुप् छंदः श्री हनुमान् देवता मारुतात्मज इति बीजं अंजनासूनुरिति शक्तिः वायुपुत्र इति कीलकं हनुमत्प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
उल्लंघ्य सिंधोस्सलिलं सलीलं
यश्शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लंकां
नमामि तं प्रांजलिरांजनेयम् ॥ 1
मनोजवं मारुततुल्यवेगं
जितेंद्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शिरसा नमामि ॥ 2
उद्यदादित्यसंकाशं उदारभुजविक्रमम् ।
कंदर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ 3
श्रीरामहृदयानंदं भक्तकल्पमहीरुहम् ।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ 4
श्रीराम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ 5
पादौ वायुसुतः पातु रामदूतस्तदंगुलीः ।
गुल्फौ हरीश्वरः पातु जंघे चार्णवलंघनः ॥ 6
जानुनी मारुतिः पातु ऊरू पात्वसुरांतकः ।
गुह्यं वज्रतनुः पातु जघनं तु जगद्धितः ॥ 7
आंजनेयः कटिं पातु नाभिं सौमित्रिजीवनः ।
उदरं पातु हृद्गेही हृदयं च महाबलः ॥ 8
वक्षो वालायुधः पातु स्तनौ चाऽमितविक्रमः ।
पार्श्वौ जितेंद्रियः पातु बाहू सुग्रीवमंत्रकृत् ॥ 9
करावक्ष जयी पातु हनुमांश्च तदंगुलीः ।
पृष्ठं भविष्यद्र्बह्मा च स्कंधौ मति मतां वरः ॥ 10
कंठं पातु कपिश्रेष्ठो मुखं रावणदर्पहा ।
वक्त्रं च वक्तृप्रवणो नेत्रे देवगणस्तुतः ॥ 11
ब्रह्मास्त्रसन्मानकरो भ्रुवौ मे पातु सर्वदा ।
कामरूपः कपोले मे फालं वज्रनखोऽवतु ॥ 12
शिरो मे पातु सततं जानकीशोकनाशनः ।
श्रीरामभक्तप्रवरः पातु सर्वकलेबरम् ॥ 13
मामह्नि पातु सर्वज्ञः पातु रात्रौ महायशाः ।
विवस्वदंतेवासी च संध्ययोः पातु सर्वदा ॥ 14
ब्रह्मादिदेवतादत्तवरः पातु निरंतरम् ।
य इदं कवचं नित्यं पठेच्च शृणुयान्नरः ॥ 15
दीर्घमायुरवाप्नोति बलं दृष्टिं च विंदति ।
पादाक्रांता भविष्यंति पठतस्तस्य शत्रवः ।
स्थिरां सुकीर्तिमारोग्यं लभते शाश्वतं सुखम् ॥ 16
इति निगदितवाक्यवृत्त तुभ्यं
सकलमपि स्वयमांजनेय वृत्तम् ।
अपि निजजनरक्षणैकदीक्षो
वशग तदीय महामनुप्रभावः ॥ 17
इति श्री हनुमत् कवचम् ॥
hanuman kavacham in konkani
Leave a Comment