Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

हनुमान् (आंजनेय) अष्टोत्तर शतनाम स्तोत्रम्

Hanuman Ashtottara Sata Naama Stotram in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

hanuman ashtottara sata naama stotram in konkani

आंजनेयो महावीरो हनुमान्मारुतात्मजः ।
तत्वज्ञानप्रदः सीतादेवीमुद्राप्रदायकः ॥ 1 ॥

अशोकवनिकाच्छेत्ता सर्वमायाविभंजनः ।
सर्वबंधविमोक्ता च रक्षोविध्वंसकारकः ॥ 2 ॥

परविद्यापरीहारः परशौर्यविनाशनः ।
परमंत्रनिराकर्ता परयंत्रप्रभेदकः ॥ 3 ॥

सर्वग्रहविनाशी च भीमसेनसहायकृत् ।
सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥ 4 ॥

पारिजातद्रुमूलस्थः सर्वमंत्रस्वरूपवान् ।
सर्वतंत्रस्वरूपी च सर्वयंत्रात्मकस्तथा ॥ 5 ॥

कपीश्वरो महाकायः सर्वरोगहरः प्रभुः ।
बलसिद्धिकरः सर्वविद्यासंपत्प्रदायकः ॥ 6 ॥

कपिसेनानायकश्च भविष्यच्चतुराननः ।
कुमारब्रह्मचारी च रत्नकुंडलदीप्तिमान् ॥ 7 ॥

संचलद्वालसन्नद्धलंबमानशिखोज्ज्वलः ।
गंधर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ॥ 8 ॥

कारागृहविमोक्ता च शृंखलाबंधमोचकः ।
सागरोत्तारकः प्राज्ञो रामदूतः प्रतापवान् ॥ 9 ॥

वानरः केसरिसुतः सीताशोकनिवारकः ।
अंजनागर्भसंभूतो बालार्कसदृशाननः ॥ 10 ॥

विभीषणप्रियकरो दशग्रीवकुलांतकः ।
लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः ॥ 11 ॥

चिरंजीवी रामभक्तो दैत्यकार्यविघातकः ।
अक्षहंता कांचनाभः पंचवक्त्रो महातपाः ॥ 12 ॥

लंकिणीभंजनः श्रीमान् सिंहिकाप्राणभंजनः ।
गंधमादनशैलस्थो लंकापुरविदाहकः ॥ 13 ॥

सुग्रीवसचिवो धीरः शूरो दैत्यकुलांतकः ।
सुरार्चितो महातेजा रामचूडामणिप्रदः ॥ 14 ॥

कामरूपी पिंगलाक्षो वार्धिमैनाकपूजितः ।
कबलीकृतमार्तांडमंडलो विजितेंदिर्यः ॥ 15 ॥

रामसुग्रीवसंधाता महिरावणमर्दनः ।
स्फटिकाभो वागधीशो नवव्याकृतिपंडितः ॥ 16 ॥

चतुर्बाहुर्दीनबंधुर्महात्मा भक्तवत्सलः ।
संजीवननगाहर्ता शुचिर्वाग्मी दृढव्रतः ॥ 17 ॥

कालनेमिप्रमथनो हरिमर्कटमर्कटः ।
दांतः शांतः प्रसन्नात्मा शतकंठमदापहृत् ॥ 18 ॥

योगी रामकथालोलः सीतान्वेषणपंडितः ।
वज्रदंष्ट्रो वज्रनखो रुद्रवीर्यसमुद्भवः ॥ 19 ॥

इंद्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकः ।
पार्थध्वजाग्रसंवासी शरपंजरभेदकः ॥ 20 ॥

दशबाहुर्लोर्कपूज्यो जांबवत्प्रीतिवर्धनः ।
सीतासमेतश्रीरामपादसेवाधुरंधरः ॥ 21 ॥

इत्येवं श्रीहनुमतो नाम्नामष्टोत्तरं शतम् ।
यः पठेच्छृणुयान्नित्यं सर्वान्कामानवाप्नुयात् ॥ 22 ॥

hanuman ashtottara sata naama stotram in konkani

Copy
Give Feedback