Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

ध्येयपथिकसाधक

Dhyeya Pathika Sadhaka in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

dhyeya pathika sadhaka in konkani

ध्येयपथिकसाधक
कार्यपथे साधय
मृदु हसन् मधुकिरन् मातरं सदा स्मरन् ॥

जीवनं न शाश्वतं, वैभवं न हि स्थिरं
स्वार्थलेपनं विना, यत्कृतं हि तच्चिरं
सरलता स्वजीवने
चिंतने सदोच्चता
समाजपोषिता वयं समाजपोषकाश्चिरम् ॥ 1 ॥

यच्च मनसि चिंत्यते, यच्च कीर्त्यते गिरा
तच्च मूर्तरूपताम्, एति नित्यजीवने
जनन्यनन्यचरणयोः
समर्पितस्वजीवनाः
ध्येयसाधनव्रता वयं भवेम संगताः ॥ 2 ॥

स्मरत्विहाग्रजन्मनां, त्यागबलिसमर्पणं
सिंहकुलसमुद्भवाः सिंहविक्रमा वयं
संतु कष्टकोटयो
भवतु विघ्नवर्षणं
सकृत्प्रतिज्ञका वयं भजेम नो पलायनम् ॥ 3 ॥

रचन: श्री जनार्दन हेग्डे

dhyeya pathika sadhaka in konkani

Copy
Give Feedback