Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

धुंढिराज भुजंग प्रयात स्तोत्रम्

Dhundhiraja Bhujanga Prayata Stotram in konkani
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

dhundhiraja bhujanga prayata stotram in konkani

उमांगोद्भवं दंतिवक्त्रं गणेशं
भुजाकंकणैः शोभिनं धूम्रकेतुम् ।
गले हारमुक्तावलीशोभितं तं
नमो ज्ञानरूपं गणेशं नमस्ते ॥ 1 ॥

गणेशं वदेत्तं स्मरेत् सर्वकार्ये
स्मरन् सन्मुखं ज्ञानदं सर्वसिद्धिम् ।
मनश्चिंतितं कार्यमेवेषु सिद्ध्ये-
-न्नमो बुद्धिकांतं गणेशं नमस्ते ॥ 2 ॥

महासुंदरं वक्त्रचिह्नं विराटं
चतुर्धाभुजं चैकदंतैकवर्णम् ।
इदं देवरूपं गणं सिद्धिनाथं
नमो भालचंद्रं गणेशं नमस्ते ॥ 3 ॥

ससिंदूरसत्कुंकुमैस्तुल्यवर्णः
स्तुतैर्मोदकैः प्रीयते विघ्नराजः ।
महासंकटच्छेदकं धूम्रकेतुं
नमो गौरिपुत्रं गणेशं नमस्ते ॥ 4 ॥

यथा पातकच्छेदकं विष्णुनाम
तथा ध्यायतां शंकरं पापनाशः ।
यथा पूजिते षण्मुखे शोकनाशो
नमो विघ्ननाशं गणेशं नमस्ते ॥ 5 ॥

सदा सर्वदा ध्यायतामेकदंतं
सुसिंदूरकं पूजितं रक्तपुष्पैः ।
सदा चर्चितं चंदनैः कुंकुमाक्तं
नमो ज्ञानरूपं गणेशं नमस्ते ॥ 6 ॥

नमो गौरिकागर्भजापत्य तुभ्यं
नमो ज्ञानरूपिन्नमः सिद्धिकांत ।
नमो ध्येयपूज्याय हे बुद्धिनाथ
सुरास्त्वां भजंते गणेशं नमस्ते ॥ 7 ॥

भुजंगप्रयातं पठेद्यस्तु भक्त्या
प्रभाते जपेन्नित्यमेकाग्रचित्तः ।
क्षयं यांति विघ्ना दिशः शोभयंतं
नमो ज्ञानरूपं गणेशं नमस्ते ॥ 8 ॥

इति श्रीढुंढिराज भुजंग प्रयात स्तोत्रम् ।

dhundhiraja bhujanga prayata stotram in konkani

Copy
Give Feedback