Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

नारायणीयं दशक 39 – योगमाया प्रादुर्भावं तथा गोकुले कृष्णजन्मोत्सवम्

Narayaniyam Dashaka 39 in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

narayaniyam dashaka 39 in hindi

भवंतमयमुद्वहन् यदुकुलोद्वहो निस्सरन्
ददर्श गगनोच्चलज्जलभरां कलिंदात्मजाम् ।
अहो सलिलसंचयः स पुनरैंद्रजालोदितो
जलौघ इव तत्क्षणात् प्रपदमेयतामाययौ ॥1॥

प्रसुप्तपशुपालिकां निभृतमारुदद्बालिका-
मपावृतकवाटिकां पशुपवाटिकामाविशन् ।
भवंतमयमर्पयन् प्रसवतल्पके तत्पदा-
द्वहन् कपटकन्यकां स्वपुरमागतो वेगतः ॥2॥

ततस्त्वदनुजारवक्षपितनिद्रवेगद्रवद्-
भटोत्करनिवेदितप्रसववार्तयैवार्तिमान् ।
विमुक्तचिकुरोत्करस्त्वरितमापतन् भोजरा-
डतुष्ट इव दृष्टवान् भगिनिकाकरे कन्यकाम् ॥3॥

ध्रुवं कपटशालिनो मधुहरस्य माया भवे-
दसाविति किशोरिकां भगिनिकाकरालिंगिताम् ।
द्विपो नलिनिकांतरादिव मृणालिकामाक्षिप-
न्नयं त्वदनुजामजामुपलपट्टके पिष्टवान् ॥4॥

ततः भवदुपासको झटिति मृत्युपाशादिव
प्रमुच्य तरसैव सा समधिरूढरूपांतरा ।
अधस्तलमजग्मुषी विकसदष्टबाहुस्फुर-
न्महायुधमहो गता किल विहायसा दिद्युते ॥5॥

नृशंसतर कंस ते किमु मया विनिष्पिष्टया
बभूव भवदंतकः क्वचन चिंत्यतां ते हितम् ।
इति त्वदनुजा विभो खलमुदीर्य तं जग्मुषी
मरुद्गणपणायिता भुवि च मंदिराण्येयुषी ॥6॥

प्रगे पुनरगात्मजावचनमीरिता भूभुजा
प्रलंबबकपूतनाप्रमुखदानवा मानिनः ।
भवन्निधनकाम्यया जगति बभ्रमुर्निर्भयाः
कुमारकविमारकाः किमिव दुष्करं निष्कृपैः ॥7॥

ततः पशुपमंदिरे त्वयि मुकुंद नंदप्रिया-
प्रसूतिशयनेशये रुदति किंचिदंचत्पदे ।
विबुध्य वनिताजनैस्तनयसंभवे घोषिते
मुदा किमु वदाम्यहो सकलमाकुलं गोकुलम् ॥8॥

अहो खलु यशोदया नवकलायचेतोहरं
भवंतमलमंतिके प्रथममापिबंत्या दृशा ।
पुनः स्तनभरं निजं सपदि पाययंत्या मुदा
मनोहरतनुस्पृशा जगति पुण्यवंतो जिताः ॥9॥

भवत्कुशलकाम्यया स खलु नंदगोपस्तदा
प्रमोदभरसंकुलो द्विजकुलाय किन्नाददात् ।
तथैव पशुपालकाः किमु न मंगलं तेनिरे
जगत्त्रितयमंगल त्वमिह पाहि मामामयात् ॥10॥

narayaniyam dashaka 39 in hindi

Copy
Give Feedback