Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

क्रियासिद्धिः सत्त्वे भवति

Kriyasiddhih Sattve Bhavati in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

kriyasiddhih sattve bhavati in hindi

क्रियासिद्धिः सत्त्वे भवति महतान्नोपकरणे ।
सेवादीक्षित ! चिरप्रतिज्ञ !
मा विस्मर भो सूक्तिम् ॥

न धनं न बलं नापि संपदा न स्याज्जनानुकंपा
सिद्धा न स्यात् कार्यभूमिका न स्यादपि प्रोत्साहः
आवृणोतु वा विघ्नवारिधिस्त्वं मा विस्मर सूक्तिम् ॥ 1 ॥

आत्मबलं स्मर बाहुबलं धर परमुखप्रेक्षी मा भूः
क्वचिदपि मा भूदात्मविस्मृतिः न स्याल्लक्ष्याच्च्यवनम् ।
आसादय जनमानसप्रीतिं सुचिरं संस्मर सूक्तिम् ॥ 2 ॥

अरुणसारथिं विकलसाधनं सूर्यं संस्मर नित्यं
शूरपूरुषान् दृढानजेयान् पदात्पदं स्मर गच्छन्
सामान्येतरदृग्भ्यस्सोदर, सिध्यति कार्यमपूर्वम् ॥ 3 ॥

रचन: श्री जनार्दन हेग्डे

kriyasiddhih sattve bhavati in hindi

Copy
Give Feedback