Search Results

Search from 23,000+ Stotrams, Mantras & Spiritual Posts

गणपति गकार अष्टोत्तर शतनाम स्तोत्रम्

Ganapati Gakara Ashtottara Satanama Stotram in hindi
with lyrics, PDF, meaning, devotional benefits,
chanting guide and complete spiritual content.

ganapati gakara ashtottara satanama stotram in hindi

गकाररूपो गंबीजो गणेशो गणवंदितः ।
गणनीयो गणोगण्यो गणनातीत सद्गुणः ॥ 1 ॥

गगनादिकसृद्गंगासुतोगंगासुतार्चितः ।
गंगाधरप्रीतिकरोगवीशेड्योगदापहः ॥ 2 ॥

गदाधरनुतो गद्यपद्यात्मककवित्वदः ।
गजास्यो गजलक्ष्मीवान् गजवाजिरथप्रदः ॥ 3 ॥

गंजानिरत शिक्षाकृद्गणितज्ञो गणोत्तमः ।
गंडदानांचितोगंता गंडोपल समाकृतिः ॥ 4 ॥

गगन व्यापको गम्यो गमानादि विवर्जितः ।
गंडदोषहरो गंड भ्रमद्भ्रमर कुंडलः ॥ 5 ॥

गतागतज्ञो गतिदो गतमृत्युर्गतोद्भवः ।
गंधप्रियो गंधवाहो गंधसिंधुरबृंदगः ॥ 6 ॥

गंधादि पूजितो गव्यभोक्ता गर्गादि सन्नुतः ।
गरिष्ठोगरभिद्गर्वहरो गरलिभूषणः ॥ 7 ॥

गविष्ठोगर्जितारावो गभीरहृदयो गदी ।
गलत्कुष्ठहरो गर्भप्रदो गर्भार्भरक्षकः ॥ 8 ॥

गर्भाधारो गर्भवासि शिशुज्ञान प्रदायकः ।
गरुत्मत्तुल्यजवनो गरुडध्वजवंदितः ॥ 9 ॥

गयेडितो गयाश्राद्धफलदश्च गयाकृतिः ।
गदाधरावतारीच गंधर्वनगरार्चितः ॥ 10 ॥

गंधर्वगानसंतुष्टो गरुडाग्रजवंदितः ।
गणरात्र समाराध्यो गर्हणस्तुति साम्यधीः ॥ 11 ॥

गर्ताभनाभिर्गव्यूतिः दीर्घतुंडो गभस्तिमान् ।
गर्हिताचार दूरश्च गरुडोपलभूषितः ॥ 12 ॥

गजारि विक्रमो गंधमूषवाजी गतश्रमः ।
गवेषणीयो गमनो गहनस्थ मुनिस्तुतः ॥ 13 ॥

गवयच्छिद्गंडकभिद्गह्वरापथवारणः ।
गजदंतायुधो गर्जद्रिपुघ्नो गजकर्णिकः ॥ 14 ॥

गजचर्मामयच्छेत्ता गणाध्यक्षोगणार्चितः ।
गणिकानर्तनप्रीतोगच्छन् गंधफली प्रियः ॥ 15 ॥

गंधकादि रसाधीशो गणकानंददायकः ।
गरभादिजनुर्हर्ता गंडकीगाहनोत्सुकः ॥ 16 ॥

गंडूषीकृतवाराशिः गरिमालघिमादिदः ।
गवाक्षवत्सौधवासीगर्भितो गर्भिणीनुतः ॥ 17 ॥

गंधमादनशैलाभो गंडभेरुंडविक्रमः ।
गदितो गद्गदाराव संस्तुतो गह्वरीपतिः ॥ 18 ॥

गजेशाय गरीयसे गद्येड्योगतभीर्गदितागमः ।
गर्हणीय गुणाभावो गंगादिक शुचिप्रदः ॥ 19 ॥

गणनातीत विद्याश्री बलायुष्यादिदायकः ।
एवं श्रीगणनाथस्य नाम्नामष्टोत्तरं शतम् ॥ 20 ॥

पठनाच्छ्रवणात् पुंसां श्रेयः प्रेमप्रदायकम् ।
पूजांते यः पठेन्नित्यं प्रीतस्सन् तस्यविघ्नराट् ॥ 21 ॥

यं यं कामयते कामं तं तं शीघ्रं प्रयच्छति ।
दूर्वयाभ्यर्चयन् देवमेकविंशतिवासरान् ॥ 22 ॥

एकविंशतिवारं यो नित्यं स्तोत्रं पठेद्यदि ।
तस्य प्रसन्नो विघ्नेशस्सर्वान् कामान् प्रयच्छति ॥ 23 ॥

॥ इति श्री गणपति गकार अष्टोत्तर शतनामस्तोत्रम् ॥

ganapati gakara ashtottara satanama stotram in hindi

Copy
Give Feedback